SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ जैनपुस्तकप्रशस्तिसङ्ग्रह । तत्राभवद् भवभयच्छिदुरार्हदहिराजीवजीवितसदाशयराजहंसः । पूर्वः पुमान् गणहरिगणिधारिसार से ..................॥ ""यान् थिरदेवस्य हरिदेवोऽस्ति [ बांधवः ] । हर्षदेवीभवाः पुत्रा नरसिंहादयोऽस्य च ॥ १५॥ 5 सहोदर्यः सपौनस्य लष्मिणिर्द्धर्मकर्मठा । कर्मिणि-हेरिसणिश्च पुत्र्यस्तिस्रो गुणश्रियः ॥ १६ ॥ गुणधरस्य यो भ्राता कनिष्ठो धुंधुकाभिधः । षेढा नामास्ति तत्पुत्रः पवित्रगुणसंततिः ॥ १७ ॥ अथ गुरुक्रमःश्रीराजगच्छमुकुटोपमशीलभद्रसूरेविनेयतिलकः किल धर्मसूरिः। दुर्वादिगर्वभरसिंघुरसिंहनादः श्रीविग्रहक्षितिपतेर्दलितप्रमादः ॥ १८ ॥ 10 आनंदसूरिशिष्यश्रीअमरप्रभसूरितः । श्रुत्वोपदेशं कल्पस्य पुस्तिकां नूतनामिमां ॥ १९॥ उद्यमात् सोमसिंहस्य सपुण्यः पुण्यहेतवे । अलेखयच्छुभालेखां निजमातुर्गुणश्रियः ॥ २० ॥ यावच्चिरं धर्मधराधिराजः सेवाकृतां सुकृतिनां वितनोति लक्ष्मी ।' मुनींद्रवृंदेरिह वाच्यमाना तावत् मुदं यच्छतु पुस्तिकाऽसौ ॥ २१॥ संवत् १३४४ वर्षे मार्ग० शुदि २ रवौ सोमसिंहेन लिखापिता ॥ [३२] दयावटपुरीय-श्रावकसंघ लेखित पुस्तकप्रशस्तिः । [लेखनकाल १३४९ विक्रमाब्द।] नमः श्रीवर्द्धमानाय वर्द्धमानाय वेदसा । वेदसारं परं ब्रम ब्रह्मबद्धस्थितिश्च यः ॥ १॥ खबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रेषु सिक्तं शुभभाववारिणां । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ॥ २ ॥ ख्यातस्तत्रास्ति वस्तुप्रगुणमुणगणः प्राणिरक्षकदक्षः, सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुबैश्चरित्रः । पात्रं पात्रैकचूडामणिजिनसुगुरुपासनावासनायाः, संघः सुश्रावकाणां सुकृतमतिरमी संति तत्रापि मुख्याः ॥३॥ होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकः श्रेष्ठः शिष्टधीररिसिंहकः ॥ ४ ॥ कट्ठयाकश्चमुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ॥ ५ ॥ एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनः सः । सदा सदाचारविचारचारुक्रियासमाचारशुचिव्रतानाम् ॥ ६॥ श्रीमज्जगचंद्रमुनींद्रशिष्यश्रीपूज्यदेवेंद्रमुनीश्वराणाम् ।। तदाद्यशिष्यत्वभृतां च विद्यानाख्यविख्यातमुनिप्रभूणाम् ॥ ७ ॥ 20 25 * अत्रैकं पत्रं [१६२ अवाहित] विनष्टमस्ति । ततः प्रशस्त प्रायः १३ पानि प्रणयानि तत्र । + + एतत्प्रशस्तिसमन्वितानि ताडपत्रात्मकानि श्राद्धदिनकृत्यत्रवृत्ति-उपदेशमालादिप्रन्थपुस्तकानि स्तम्भतीर्थे शान्तिनाथभाण्डागारे विद्यन्ते । द्रष्टव्यम्-पिटर्सन् , रीपोर्ट पुस्तक ३, पृ. १६८-७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002781
Book TitleJain Pustak Prashasti Sangraha 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1943
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & History
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy