SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ३९२ स्वामिकार्तिकेयानुप्रेक्षा [गा०४८७तथैव तत्त्वानुशासने । 'अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः। धर्मध्यानं पुनः प्राहुः श्रेणीभ्यां प्राविवर्तिनाम् ॥' 'अप्रमत्तः प्रमत्तश्च सदृष्टिदेशसंयतः। धर्मध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः ॥ मुख्योपचारभेदेन धर्मध्यानमिह द्विधा । अप्रमत्तेषु तन्मुख्यमितरेष्वौपचारिकम् ॥' यथोक्तशुभमसंहननाभावात्तदुत्सर्गवचनम् अपवादव्याख्याने पुनरुपशमक्षपकश्रेण्योः शुक्लध्यानं भवति । यच्चोत्तमसंहननेनैव अपूर्वगुणस्थानादधस्तनेषु गुणस्थानेषु धर्मध्यानं तच्चादिमत्रिकोत्त मसंहननाभावेऽप्यन्तिमत्रिकसंहननापि भवति । तदप्युक्तं तत्त्वानुशासने । 'यत्पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योानं प्रतीत्योक्तं तन्नाधस्तान्निषेधकम् ॥' यच्चोक्तं दशचतुर्दशपूर्वगतश्रुतज्ञानेन ध्यानं भवति तदप्युत्सर्गवचनम् । अपवादव्याख्यानेन पुनः पञ्चसमितित्रिगुप्तिप्रतिपादकसारभूतश्रुतेनापि ध्यानं भवति केवलज्ञानं च। यद्येवमपवादव्याख्यानं नास्ति तर्हि 'तुसमासं घोसंतो सिवभूदी केवली जादो ।' इत्यादिगन्धर्वाराधनाभणितं व्याख्यानं कथं घटते । अथ मतं पञ्चसमितित्रिगुप्तिप्रतिपादकं द्रव्यश्रुतमिति जानातीदं भावश्रुतं पुनः सर्वमस्ति नैवं वक्तव्यम् । यदि पञ्चसमितित्रिगुप्तिप्रतिपादक द्रव्यश्रुतं जानाति तर्हि 'मा रूसह मा तूसह' इत्येकपदं किं न जानाति । तत एवं ज्ञायते अष्टप्रवचनमातृकाप्रमाणमेव भावश्रुतं द्रव्यश्रुतं पुनः किमपि नास्ति । इदं तु व्याख्यानमस्माभिर्न कल्पितमेव तच्चारित्रसारादिग्रन्थेष्वपि भणितमास्ते । तथाहि । 'अन्तर्मुहूर्तादूर्ध्व केवलज्ञानमुत्पादयन्ति ते क्षीणकषायगुणस्थानवर्तिनो निम्रन्थसंज्ञा ऋषयो भण्यन्ते । तेषां चोत्कर्षेण चतुर्दशपूर्वादिश्रुतं भवति जघन्येन पुनः पञ्चसमितित्रिगुप्तिमात्रमेवेति । अथ मतं मोक्षार्थ ध्यानं क्रियते, न चाद्य काले मोक्षोऽस्ति, ध्यानेन किं प्रयोजनम् । नैवम् , अद्य कालेऽपि परंपरया मोक्षोऽस्ति । कथमिति चेत्। स्वशुद्धात्मभावनाबलेन संसारस्थिति स्तोकां कृत्वा देवलोकं गच्छन्ति । तस्मादागत्य मनुष्यभवे रत्नत्रयभावना लब्ध्वा शीघ्रं गच्छन्तीति । येऽपि भरतसगररामपाण्डवादयो मोक्षं गतास्तेऽपि पूर्वे भवे भेदाभेदरत्नत्रयभावनया संसारस्थितिं स्तोकां कृत्वा पश्चान्मोक्षं गताः । ततस्तद्भवे सर्वेषां मोक्षो भावीति नियमो नास्ति । एवमुक्तप्रकारेणाल्पश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किंकर्तव्यमिति । अथ तदेव ध्यानं विकल्पितमविकल्पितं च। अविकल्पितं शुक्लध्यानमिति । विकल्पितं धर्मध्यानम्। तत्कथम् , आर्तरौद्रद्वयं त्यक्त्वा निजात्मनि रतः परिणतः तल्लीयमानस्तच्चित्तस्तन्मयो भूत्वा आत्मसुखस्वरूपं तन्मयत्वं परमध्यानं चिन्तनीयम् । तद्वीतरागपरमानन्दसुखं, तदेव निश्चयमोक्षमार्गस्वरूपं, तदेव शुद्धात्मस्वरूप, तदेव परमात्मखरूपं, तदेवैकदेशव्यक्तिरूपविवक्षितैकदेशशुद्धनिश्चयेन स्वशुद्धात्मसंवित्तिसमुत्पन्नसुखामृतजलसरोवरे रागादिमलरहितत्वेन परमहंसरूपं, तदेव परमब्रह्मखरूपं, तदेव परमविष्णुखरूपं, तदेव परमशिवस्वरूपं, तदेव परमबुद्धखरूपं, तदेव परमजिनखरूपं, तदेव खात्मोपलब्धिलक्षणसिद्धस्वरूपं, तदेव निरंजनस्वरूपं, तदेव निर्मलखरूपं, तदेव स्वसंवेदनज्ञानं, तदेव परमतत्त्वज्ञानं, तदेव शुद्धात्मदर्शनं, तदेव परमावस्थारूपपरमात्मदर्शनं, तदेव ध्येयभूतशुद्धपारिणामिकभावस्वरूपं, तदेव ध्यानभावनास्वरूपं, तदेव शुद्धचारित्रं, तदेव परमपवित्रं, तदेव परमधर्मध्यानं, तदेव परमतत्त्वं, तदेव शुद्धात्मद्रव्यं, तदेव परमज्योतिः, सैव शुद्धात्मानुभूतिः, सैवात्मप्रतीतिः, सैवात्मसंवित्तिः, सैव स्वरूपोपलब्धिः , सैव नित्योपलब्धिः , स एव परमसमाधिः, स एव परमानन्दः, स एव नित्यानन्दः, स एव सहजानन्दः, स एव सदानन्दः, स एव शुद्धात्मपदार्थाध्ययनरूपः, स एव परमखाध्यायः, स एव निश्चयमोक्षोपायः, स एवैकाग्रचिन्तानिरोधः, स एव परमबोधः, स एव शुद्धोपयोगः, स एव परमयोगः, स एव परमार्थः, स एव निश्चयपञ्चाचारः, स एव अरहंत सिद्ध आचार्य उपाध्याय और साधु ये पाँचों परमेष्ठी भी आत्मामें ही स्थित हैं अतः आत्मा ही मेरा शरण है ॥ निर्ममत्वका आश्रय लेकर मैं ममत्वको छोड़ता हूँ। आत्मा ही मेरा सहारा है शेष रागादि भावोंका मैं त्याग करता हूँ॥ आत्मा ही मेरे ज्ञानमें निमित्त है, आत्मा ही मेरे सम्यग्दर्शन और सम्यक् चारित्रमें निमित्त है, आत्मा ही मेरे प्रत्याख्यानमें निमित्त है, और आत्मा ही मेरे संवर और ध्यानमें निमित्त है ॥ ज्ञान और दर्शन लक्षणवाला एक मेरा आत्मा ही नित्य है, बाकीके समी बाह्य पदार्थ कर्मके उदयसे आकर मिले हैं इसलिये अनित्य हैं । ज्ञानीको विचारना चाहिये कि केवल ज्ञान मेरा खभाव है, केवलदर्शन मेरा खभाव है, अनन्त सुख मेरा खभाव है और अनन्त वीर्य मेरा खभाव है ॥ ज्ञानीको विचारना चाहिये कि मैं अपने स्वभावको नहीं छोड़ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy