SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विभागः 32 6. मनोद्रव्यपर्यायसाक्षात्कारि मनःपर्यायः। मनोद्रव्य के पर्यायों का साक्षात् करने वाला ज्ञान मनः पर्याय ज्ञान है। न्या. प्र.- द्रव्यरूपस्य मनसो ये पर्यायाः चिन्तनानुगुणाः परिणामभेदाः अर्थात् मनसः विभिन्नाः परिणतयः तद्विषयकं ज्ञानं मनःपर्यायज्ञानम्। अर्थात् येन ज्ञानेन कस्यचित् पुरुषस्य मनसो विभिन्नाः पर्याया ज्ञायन्ते तत् ज्ञानं मनःपर्यायज्ञानमित्युच्यते। अस्मिन् विषये मतद्वयमस्ति । प्रथमन्तु-मनःपर्यायज्ञानं परकीयमनसा चिन्त्यमानान् अर्थान् जानाति। द्वितीयमतानुसारम्-मन:पर्यायज्ञानं चिन्तने व्याप्तस्य मनसो द्रव्यस्य पर्यायान् साक्षात् जानाति। तैश्चिन्तिता: पदार्थाश्च (क)अनेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवति, न तु भावमनसः, अमूर्तत्वात् तेषाम्। (ख) विशुद्धिक्षेत्रस्वामिविषयभेदादवधिमन: पर्याययोर्भेदः विशुद्धिकृतो भेद :- यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते, तानि मन:पर्यायज्ञानी विशुद्धतराणि जानीते। क्षेत्रकृतो भेद :- अवधिज्ञानमंगुलस्याऽसंख्येयभागादिषु भवति आसर्वलोकात्, मन:पर्यायो मनुष्यक्षेत्र एव। स्वामिकृतो भेद :- अवधि: संयतस्याऽसंयतस्य संयतासंयतस्य च भवति मन:पर्यायस्तु संयतमनुष्यस्यैव। विषयकृतो भेद :- रूपवद्रव्येष्वसर्वपर्यायेष्ववधेविषयः, तदनन्तभागे मन:पर्यायस्य। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy