SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ३० भिक्षुन्यायकर्णिका संख्येयासंख्येयभागादारभ्य उत्कृष्टं सर्वलोकं समवलोक्य प्रतिपतितं भवति अर्थात् विगतं भवति। ६. अप्रतिपाति अवधिज्ञानम् इदमवधिज्ञानमलोकाकाशस्य एकमाकाशप्रदेशं द्रष्टुं अथवा ततोऽप्यधिकं द्रष्टं क्षमते। इदम् अवधिज्ञानं समासत: चतुर्विधं समाख्यातं वर्तते । तच्च द्रव्यतः क्षेत्रतः कालतः भावतश्च। द्रव्यदृष्ट्या अवधिज्ञानं क्षोदीयांसि अनन्तरूपिद्रव्याणि आनाति पश्यति। उत्कृष्टतश्च सर्वाणि उत्कृष्टद्रव्याणि जानाति पश्यति वा। क्षेत्रदृष्टया अवधिज्ञानी पुरुषः जघन्यस्यातिक्षुद्रपदार्थस्य असंख्यातं भागं जानाति पश्यति वा। उत्कृष्टतस्तु लोकप्रमाणमसंख्यातखण्डं जानाति पश्यति वा। कालदृष्ट्या-अवधिज्ञानी आवलिकायाः (अतिसूक्ष्मका -लस्य) असंख्याततमं भागं जानाति पश्यति वा। उत्कृष्टतस्तु-असंख्येयम् अवसर्पिण्युत्सर्पिणीप्रमाणम् अतीतम् भविष्यञ्च कालं जानाति पश्यति वा। भावदृष्टया तु अवधिज्ञानी जघन्यतः अनन्तपर्यायान् तथा उत्कृष्टतोऽपि असौ अनन्तपर्यायान् तथा तेषामनन्तभागान् जानाति पश्यति च। अनया रीत्येदं ज्ञानमुत्कृष्टमिति वक्तुं शक्यते। मनःपर्यावज्ञानं लक्षयन् सूत्रमवतारयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy