SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ २३ सम्पर्कात् ज्ञानं जनयन्ति इन्द्रियाणि । तत्र च मनसः साहचर्यमप्यपेक्षितं भवति । अतएवोच्यते इन्द्रियमनोनिमित्तं सांव्यवहारिकं प्रत्यक्षमिति । द्वितीयो विभाग: इन्द्रियमनोनिरपेक्षेणात्मना जायमानं सर्वज्ञानप्रधानं मुख्यं केवल ज्ञानात्मकं प्रत्यक्षमिति प्रसिद्धं जैनसमये । यद्ज्ञानमक्षेभ्यः इन्द्रियेभ्यः तथा अक्षात् आत्मनो वा परतो भवति तत् परोक्षमित्युच्यते । यथा— अनुमित्यात्मकं ज्ञानमविनाभाविना लिङ्गेन भवति । उपमित्यात्मकं ज्ञानं तु सादृश्येन जायते । शाब्दज्ञानं च शब्दद्वारा भवति । नात्रेन्द्रियाणामन्यस्य कस्यापि साधनस्य वा अपेक्षा भवतीति एषां परोक्षत्वं स्पष्टमेव । यथार्थज्ञानमेवप्रमाणमित्युक्तं प्राक् । तत्र यथार्थत्वावच्छिन्ना यावन्त: सन्ति ज्ञानप्रकारास्तावन्त एव प्रमाणस्य भेदा अपि भवन्ति, तथापि प्राधान्येन प्रमाणस्योपर्युक्तौ द्वा एव भेदौ प्रथितौ । यद्यपि स्वरूपावबोधकत्वेन सर्वमेवज्ञानं प्रत्यक्षमेवेति वक्तुं शक्यते तथापि बाह्यार्थपरिच्छेदापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च भवतीति विज्ञेयम् । अत्र स्वरूपावबोधशब्देन ज्ञानस्य स्वप्रकाशकत्वं बोध्यम् । अत्रायं विशेष: - प्रत्यक्षशब्दस्य व्युत्पत्तौ अक्षशब्दस्यार्थः इन्द्रियमिति मन्यन्ते वैदिका बौद्धाश्च । अक्षशब्दार्थः आत्मा इति न स्वीकृतमत्र | अतः वैदिकपरम्परायां बौद्धपरम्परायाञ्च इन्द्रियाश्रितमेव ज्ञानं प्रत्यक्षमिति फलितं भवति । इदमिन्द्रियाश्रितं ज्ञानं प्रत्यक्षम् ईश्वरीयज्ञाने उपचरितमिति मन्तव्यम् । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy