SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९० ] आचार्य श्रीमलयगिरिविरचितं शब्दानुशासनम् । नमि-कम-कम्प-स्मि - हिंस- अजस- दीपः रः । ४२ । एभ्यः परः शीलादौ सति अर्थे 'र' प्रत्ययो भवति । नम्रः । कम्रः । कम्प्रः । स्मेरं मुखम् । हिंस्रः । 'अजस्रम् ' इति 'जसू मोक्षणे' नञ्पूर्वः 'र' प्रत्ययान्तः स्वभावात् क्रियासातत्ये वर्तते । दीप्रः ॥ ४२ ॥ तृषि - धृषि - स्वपः नजिङ । ४३ । एभ्यः परः शीलादौ सति अर्थे 'नजिङ्' प्रत्ययो भवति । तृष्णक् । धृष्णक् । स्वप्नक् ॥ ४३ ॥ भीरु भीरुक-भीलुकं च । ४४ । एते 'रु' - 'रुक'- 'लुक' प्रत्ययान्ता निपात्यन्ते । भीरुः । भीरुकः । भीलुकः । चकारः ' शीलादौ' इति अनुकर्षणार्थ: तेन उत्तरत्र न अनुवर्त्तते ॥ ४४ ॥ 'उणू' आदयः । ४५ । 'बहुलम्' इति वर्तते । घातोः सति अर्थे वर्तमानात् 'उण्'आदयः प्रत्यया बहुलं I भवन्ति । कारुः । किंशारुः । ‘बहुल' ग्रहणं प्रयोगानुसरणार्थम् तेनं येभ्यः घातुभ्यः यथा दृश्यन्ते तेभ्यः तथा भवन्तीति धात्वर्थकार्यनियमः सिद्धः । Jain Education International संज्ञासु धातुरूपाणि प्रत्ययाश्व ततः परे । कार्यानुबन्धोपपदं नेयमेवम् उणादिषु ॥ ४५ ॥ भविष्यति 'गमी' आदिः । ४६ । भविष्यति अर्थे 'गर्मी' आदिः साधुः वेदितव्यः । गमी । आगामी । भावी । प्रस्थायी । प्रतिबोधी । प्रयायी । परिवायी । पदे सामान्य वृत्तौ अपि अर्थकरणादिना विशेषप्रतिपत्तिः भवति इति 'श्वः गमी ग्रामम्' इत्येष वाक्यार्थः ॥ ४६॥ भविष्यन्ती । ४७ । 'भविष्यति' अर्थे वर्तमानात् धातोः भविष्यन्ती भवति । करिष्यति । यास्यति ॥ ४७ ॥ १ " तेन ये येभ्यो धातुभ्यो यस्मिन्नर्थे यथा दृश्यन्ते ते तेभ्यः तस्मिन् तथा भवन्तीति धात्वर्थकार्य नियमः सिद्धो भवति " - शा० ४।३।२८० | For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy