SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २८९ कृदन्ते चतुर्थः पादः २८९ एते शीलादौ सति अर्थे 'इ' प्रत्ययान्ता निपात्यन्ते दधातेः इः कित् द्विवचनं च दधिः । सृ-सस्रिः । कृत्रः चक्रिः । जने: जज्ञिः । नमेः नेमिः ॥ ३४ ॥ भञ्जि-भासि-मिदः घुरः । ३५ । एभ्यः परः शीलादौ सति अर्थे 'घुर' प्रत्ययो भवति । भङ्गुरं काष्ठम् । भासुरं वपुः । मेदुरः नरः ॥ ३५ ॥ वेत्ति-च्छिदि-भिदः कित् । ३६ । एभ्यः शीलादौ सति अर्थे कित् 'धुर' प्रत्ययो भवति । विदुरः । छिदुरः । भिदुरः ।। ३६ ॥ सर्ति-इण्-जि-नशेः ट्वरप् । ३७ । एभ्यः परः शीलादौ सति अर्थे कित् 'टरप्' प्रत्ययो भवति । सृत्वरः । इत्वरः । जित्वरः । नश्वरः । टकारः 'डी' प्रत्ययार्थः । पकारः 'त' अर्थः ॥ ३७॥ दृ-क्षि-इण-जि-विश्रि-परिभू-वम-अभ्यम-अव्यथेः इन् । ३८ । एभ्यः परः शीलादौ सति अर्थे 'इन्' प्रत्ययो भवति । दरी । क्षयी। अत्ययी। जयो। विश्रयी। परिभवी । वमी। अभ्यमी । अव्यथी ॥ ३८ ॥ प्रात् सुव-जोः । ३९ । 'प्र'पूर्वात् सुवतेः जवतेश्च परः शीलादौ सति अर्थे 'इन्' प्रत्ययो भवति । प्रसवी । प्रजवी । 'सुव” इति किम् ? सूति-सूयत्योः प्रसविता ।। ३९ ।। ___ स्था-ईश-भास-पिस-कसः वरः । ४० । एभ्यः परः शीलादौ सति अर्थे 'वर' प्रत्ययो भवति । . स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । विकस्वरः ।। ४० ॥ यायावरः । ४१। यातेः यङन्तस्य शीलादौ सति अर्थे 'वर' प्रत्यये 'यायावर' इति निपात्यते । यायावरः ॥ ४१ ॥ ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy