SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २०८ ) आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । ज-नशः नि उपान्त्ये तादि क्त्वा । २६ । 'ज'अन्तस्य नशश्च नकारे उपान्त्ये सति तकारादिः क्त्वा किद्वत् भवति वा । रक्त्वा, रबृत्वा । नष्ट्वा, नंष्ट्वा । नि उपान्त्ये इति किम् ? भुक्त्वा । इष्ट्वा । भृष्ट्वा । तादि इति किम् ? विभज्य ।। २६ ॥ थ-फ-तृषि-मृषि-कृषि-वञ्चि-लुश्चि-ऋतेः सेट् । २७।। थकारान्तस्य फकारान्तस्य 'तृषि' आदेश्च नकारोपान्त्ये सति क्त्वा सेट् वा किद्वत् भवति । श्रथित्वा, श्रन्थित्वा । ग्रथित्वा, प्रन्थित्वा । गुफित्वा, गुम्फित्वा । तृषित्वा, तर्षित्वा । मृषित्वा, मर्षित्वा । कृषित्वा, कर्षित्वा । वचित्वा, वञ्चित्वा । लुचित्वा, लुञ्चित्वा । ऋतित्वा, अर्तित्वा । नि उपान्त्ये इति किम् ? कोथित्वा । रेफित्वा। इदं च विशेषणम् थ-फअन्तानामेव न अन्येषाम् असंभवात् व्यभिचाराभावाच्च । सेट् इति किम् ? वक्त्वा ।। २७ ॥ यो व्यञ्जनादेः अवः सन् च । २८ । अवकारान्तस्य व्यञ्जनादेः धातोः इकारे उकारे च उपान्त्ये सति सन् क्त्वा च से किद्वत् वा भवति । लिलिखिषति, लिलेखिषति । लिखित्वा, लेखित्वा । दिद्युतिषते, दिद्योतिषते। द्युतित्वा, योतित्वा । अवः इति किम् ? दिदेविषति, देवित्वा । व्यञ्जनादेः इति किम् ? एपित्वा । सेट् इति किम् ? भुक्त्वा ।। २८ ।। उति 'शव'अर्ह-अदादेः क्तौ भाव-आरम्भे । २९ । .. 'श'अर्हाणाम् अदादेश्च उकारे उपान्त्ये सति भावे आरम्भे च विहितौ क्त-क्तवतू सेटौ वा किद्वत् भवतः। __कुचितम् कोचितम् अनेन । प्रकुचितः प्रकोचितवान् । रुदितम् रोदितम् अनेन । प्ररुदितः, प्ररोदितः । उति इति किम् ? श्वितितम् अनेन । 'शव्' अर्ह-अदादेः इति किम् ? गुधितम् अनेन । भाव-आरम्भे इति किम् ? रुचितः कार्षापणः । सेटौ इति किम् ? प्ररूढः ।। २९ ॥ न शीङ्-डीङ्-पूङ्-धृषि-क्ष्विदि-स्विदि-मिदः । ३० । एभ्यः परौ सेटौ क्त-क्तवतू किद्वत् न भवतः । शयितः । डयितः । पवितः । धर्षितः । प्रक्ष्वेदितः । प्रस्वेदितः । प्रमेदितः ? शयित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy