SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ आख्याते षष्ठः पादः [२०७ भावयते, भवते । अन्यत्र न भवति । 'इणिः' इत्यत्र इकारः आत्मनेपदार्थः । 'भुवेः' इति इकारनिर्देशात् इणिअभावेऽपि प्राप्तौ आत्मनेपदार्थः ॥ १८ ॥ 'कुट'आदेः डिछत्.अणित् । १९ । 'कुट'आदेः परः जित्-गित्वर्जः प्रत्ययः द्वित् भवति । कुटिता। पुटिता । अगित् इति किम् ? उत्कोटः । उच्चुकोट । तुदादिअन्तर्गगः कुटादिः ॥ १९ ॥ विजेः इट् । २० । विजे: इट् द्वित् भवति । उद्विजिता । इट् इति किम् ? उद्वेजनम् ॥ २० ॥ .. वा ऊर्णोः । २१ । ऊर्गोतेः इट् वा ङिद्वत् भवति । । प्रोर्णविता, प्रोर्णविता ॥ २१ ॥ शित् अपित् । २२ । धातोः परः अपित् शित् प्रत्ययः द्वित् भवति । इतः । चिन्वन्ति । क्रोणाति । वृश्चति । अपित् इति किम् ? एति । शित् इति किम् ? चेषीष्ट ॥ २२ ॥ असंयोगात् परोक्षा कित् । २३ । । असंयोगात् धातोः परोक्षा अपित् किद्वत् भवति । निन्यतुः । ऊचतुः । असंयोगात् इति किम् ? सस्रंसे । अपित् इति क्रिम् ! निनयिथ ॥ २३ ॥ इन्धेः । २४ । इन्धेः परोक्षा अपित् किद्वत् भवति । समीधे । संयोगान्तत्वात् पूर्वेण एव अप्राप्तौ वचनम् ।। २४ ॥ वा स्वजैः । २० । स्वओः परोक्षायां किद्वत् भवति । सस्वजे, सस्वछु ।। २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy