SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ - [१७७ आख्याते चतुर्थः पादः हः जः । १५। धातोः द्वित्वे सति पूर्वस्य संबन्धिनः हकारस्य जकारो भवति । जहौ ॥ १५ ॥ कवर्गस्य चवर्गः । १६ । धातोः द्वित्वे सति पूर्वस्य कवर्गस्य चवर्गादेशो भवति । चकार । जुडवे ॥ १६ ॥ यङ्-अकवतेः । १७ । 'कवति' वर्जितस्य धातोः यङन्तस्य द्वित्वे सति पूर्वस्य कवर्गस्य चवर्गों भवति । चेक्रीयते । अकवतेः इति किम् ? कोकूयते खरः । कौति-कुवत्योस्तु भवतिचोकूयते ॥ १७ ॥ आ-गुणौ अनी-म्आ देः । १८ । यङन्तस्य धातोः द्वित्वे सति पूर्वस्य अनी-म्-आद्यन्तस्य आकारः गुणश्च अन्तादेशो भवति । पापच्यते । बेभियते । लोलूयते । अनी-म्आदेः इति किम् ? वनीवच्यते जाप्यते ॥ १८ ॥ न आतो हाकः । १९। जहातेः यङन्तस्य आकारान्तस्य द्वित्वे सति पूर्वस्य आकारः अन्तादेशो न भवति । जहाति । जहेति । आतः इति किम् ? जेहीयते ॥ १९ ॥ वञ्च स्रंस-ध्वंस-भ्रंश-कस-पत-पद-स्कन्दः नीम् । २० । एषां यङन्तानां द्वित्वे सति पूर्वस्य नीम् आगमो भवति । वनीवच्यते । सनीलस्यते । दनीध्वस्यते । बनीभ्रश्यते । चनीकस्यते । पनीपत्यते । पनीपद्यते । चनीस्कद्यते ॥ २० ॥ 'ज' आदेः मम् । २१ । ‘जप्' आदींनां यङन्तानां द्वित्वे सति पूर्वस्य मम् आगमो भवति । १“विर्भावे पूर्वस्य यः कवर्ग" अमोघ १११८॥ २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy