SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १७६ ] आचार्यश्रीमलयगिरिविरचितं शब्दानुशासनम् । व्यदिद्युतत् ॥ ७ ॥ हस्वः । ८। धातोः द्वित्वे सति पूर्वस्य हस्वो भवति । निनाय ॥ ८ । ऋतः अत् ।९। धातोः द्वित्वे सति पूर्वस्य संबन्धिनः ऋतः अत् आदेशो भवति । चकार ॥ ९ ॥ द्वितीय-तुर्ययोः प्रथम-तृतीयौ । १० । धातोः द्वित्वे सति पूर्वस्य संबन्धिनोः द्वितीय-चतुर्थयोः स्थाने यथासंख्यं प्रथम-तृतीयौ भवतः । चखान । जुघुषुः ॥ १० ॥ टिः वा ष्ठिवः । ११ । ष्ठिवः द्वित्वे सति पूर्वस्य टिः आदेशो भवति वा । टिष्ठेव, तिष्ठेव । ष्ठिवः इति किम् ? तष्टयौ ।। ११ ॥ व्यञ्जनस्य अनादेः लुक् । १२ । धातोः द्वित्वे सति पूर्वस्य संबन्धिनः व्यञ्जनस्य अनादेः लुक् भवति । पपाच ॥ १२ ॥ अघोषे शिटः ॥ १३ ॥ घातोः द्वित्वे सति पूर्वस्य संबन्धिनः शिटः अघोषे परे लुक् भवति । तिष्ठासति । अघोषे इति किम् ? सस्नौ ॥ १३ ॥ अचि आक् । १४। अचि परे धातोः द्वित्वे सति पूर्वः आक् आगमो भवति । चराचर । चलाचलः । 'आक्' विधानात् 'व्यञ्जनस्य अनादेः लुक्' [आख्याते चतु० पा० सू० १२ ] न भवति, अन्यथा 'आ' इत्येव उच्यते ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002660
Book TitleShabdanushasana
Original Sutra AuthorMalaygiri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1967
Total Pages640
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy