________________
विशेषावश्यकभाष्ये
[नि०४५१पूर्वापरवातायनाभ्यां देवदत्तः । यथा देवदत्तः पूर्वेण वातायनेन योषितमुपलभ्याऽपरेणायातास्तस्या एवाक्षा हस्तेन वा विकारमुपदर्शयति तथाऽयमप्यात्मा ध्रुवमानं रस्यमानमुपलभ्य चक्षुषा, रसनेन हल्लासादिविकारमुपदर्शयस्ताभ्यामन्योऽवसीयते । इतश्चेन्द्रियातिरिक्तो विज्ञाता-अन्येनोपलभ्यान्येन ग्रहणदर्शनात् । योऽन्येनोपलभ्यान्येन ग्रहणं करोति स ताभ्यामन्यो दृष्टः, यथा पूर्वापरवातायनाभ्यां देवदत्तः । यथा देवदत्तः पूर्वेण वातायनेनादेयमर्थमुपलभ्य घटादिकमपरेणादानं करोति । तथाऽयमप्यात्मा चक्षुषाऽऽदेयमर्थमुपलभ्य हस्ताभ्यामाददानस्तदर्थान्तरमवसीयते ॥२११४॥ 'सब्विन्दियोवलद्धाणुसरणतो तदधिोऽणुमंतव्यो । जध पंचभिण्णविण्णाणपुरिसविण्णाणसंपण्णो ॥२११५॥
सबिदिय० गाहा । इतश्चेन्द्रियातिरिक्तस्येयं चेतना, सर्वेन्द्रियोपलब्धार्थानुस्मरणात् । यो हि यैरूपलव्धानामर्थानामेकोऽनुस्मर्ता स तेभ्योऽन्यो दृष्टः, यथेच्छानुविधायि- शब्दादिभिन्नजातीयविज्ञानपुरुषपञ्चकात्तदशेषविज्ञानाभिज्ञः पुमान् । स्यात्-शब्दादिभिन्नविज्ञानपुरुषपञ्चकवत् पृथगिन्द्रियोपलब्धिमत्त्वानिष्टापादनात् विरुद्धोऽयम् । तच्च न, इच्छानुविधायिविशेषणादुपलब्धिकारणत्वाच्चोपलब्धिमदुपचारात् ॥२११५ ॥ विष्णाणतरपुव्वं बालण्णाणमिह णाणभावातो। जध वालणाणपुव्वं जुवणाणं तं च देहऽधियं ॥२११६॥
विण्णा० गाहा । अन्यविज्ञानपूर्वकमिदं बालविज्ञानम्, विज्ञानत्वात् । इह यद्वि. ज्ञानं तदन्यविज्ञानपूर्वकं दृष्टम् , यथा बालविज्ञानपूर्वकं युवविज्ञानम् । यज्ज्ञानपूर्वकं चेदं बालविज्ञानं तच्छरोरादन्यत्, शरीरात्ययेऽपीहत्यविज्ञानकारणत्वात् । तस्य च गुणत्वात् तद्गुणिनमात्मानं व्यवस्यामः । तस्मादन्यः शरीरादात्मा, न शरीरमात्रम् । स्याद्बालविज्ञानपक्षे विज्ञानत्वादित्ययं प्रतिज्ञार्थंकदेशित्वादसिद्धः । तच्च न, विशेषसामान्याभिधानात् । यथाऽनित्यः सामान्यशब्दः शब्दत्वाद् भेरीशब्दवत् । सामान्य एवं पक्षे प्रतिज्ञार्थंकदेशः स्यात्, यथाऽनित्यः शब्दः शब्दत्वात्, तथेहापि यदि सामान्यमेव पक्षः स्यात् अन्यविज्ञानपूर्वकमिदं विज्ञानत्वात्ततः स्यात् प्रतिज्ञार्थंकदेशः ॥२११६॥
१. यथा-इति प्रतौ। २. "माभ्रमस्य मा-इति प्रतौ । ३ सठवें दि० को हे। ४ यदज्ञा०इति प्रतौ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org