SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नि० ४५१ ] गणधरवादे तज्जीवतच्छरीरवादनिषेधः । try पच्चख विरोधी गोतम ! तं णाणुमाणभावातो । तुंह पच्चकखविरोधो पत्तेयं भूतचेतति ॥ २१११ ॥ णु गाहा । आह- ननु प्रत्यक्षविरुद्धमिदं यत्समुदायोपलभ्या चेतना, न समुदायस्येति यद्वद् घटोपलभ्या रूपादयो न घटस्येति । उच्यते न हि समुदाये दर्शनादवश्यं तद्गुणेनैवानया भवितव्यमनुमानसद्भावात् । घटरूपादयस्त्वर्थान्तरस्येति नानुमानमस्ति । भवत एव हि प्रत्यक्षविरुद्धमिदं भूतचैतन्य प्रतिज्ञानमनुमानाभावात् । भूतग्रहणं चेह भूतविशिष्टमात्रपुद्गलानामेव न, सात्मकानामविप्रतिपत्तेः ॥ २१११ ॥ भूतिन्दियोबलद्धाणुसरणतो तेहि भिण्णरुवस्स । चेता पंचवक्खोवलद्ध पुरिसस्स वा सरतो ।। २११२॥ भूर्तिदिय० [० गाहा । आह-न भूतसमुदायस्य चैतन्यमिति किमनुमानम् ? उच्यते-भूतेन्द्रियातिरिक्तः संचेतैयिता, तदुपलब्धार्थाऽनुस्मरणात् । यो हि यैरुपलधानर्थानेकोऽनुस्मरति स तेभ्योऽन्यो दृष्टो यथा गवाक्षैरुपलब्धानर्थानकोऽनुस्मरस्तेभ्यो देवदत्तः । यश्च यतोऽनन्यो नासावेकोऽनेकोपलब्धानामर्थानामनुस्मर्त्ता यथा मनोविज्ञानम् ॥२११२॥ तदुवरमेव सरणतो तव्वाबारे वि णोवलंभातो । इन्दियभिण्णस्स मती पंचगवक्खाणुभविणो व्व ॥ २११३॥ तदु० गाहा । इतश्चेन्द्रियातिरिक्तो विज्ञाता तदुपरमेऽपि तदुपलब्धार्थाऽनुस्मरणात् । यो हि यदुपरमेऽपि यदुपलब्धानामर्थानामनुस्मर्त्ता स तेभ्योऽन्यो दृष्टः, यथा गवाक्षोपलव्धानामर्थानां गवाक्षोपरमे देवदत्तः । अनुस्मरति चायमात्मा - अन्धबधिरादिकालेऽपीन्द्रियोपलब्धानर्थान् । अतः स तेभ्योऽर्थान्तरमिति । व्यतिरेकः पूर्ववत् । इतश्चेन्द्रियातिरिक्तो विज्ञाता-तद्व्यापारेऽपि अनुपलम्भात् । हि यद्व्यापारेऽपि यदुपलभ्यानर्थान्नोपलभते स तेभ्योऽन्यो दृष्टो यथा गवाक्षानुपरमेऽपि तद्दर्शनानुपयुक्तस्तेभ्यो देवदत्तः ॥२११३॥ उवलभरणेण त्रिगारगहणतो तदधिओ धुवं अस्थि । पुव्वावरवादायणगहण विगारादिपुरिसो व्व ॥ २११४ ॥ ३६९ उव० गाहा । इतश्चेन्द्रियातिरिक्तो विज्ञाता - अन्येनोपलभ्यान्यविकारदर्शनात् । योऽन्येनोपधाऽन्येन विकारमुपदर्शयति स ताभ्यामन्यो दृष्टो, यथा १ तह त । २ तनयि - इति प्रतौ । ३ को न स्म - इति प्रतौ । ४ भ्याप्यधिकारुर्दइति प्रतौ । ... Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy