________________
नि०४४३ ]
गणधरवादे जीवसिद्धिः ।
दीनामपि यद्येवमात्मनोऽपि स्यात् को दोषः ? उच्यते - निषेधविषया एवासन्तः संयोगादयो न त्वर्थान्तरविषया यथा नास्ति घटो गेह इति । गेहघटसंयोगमात्रमेवासत्, न घटस्याकाशादिना संयोगो' न वा गेहस्य खट्वादिभिरण्वादीनां च परस्परम्, तथा समवायादयोपीति ॥ २०२९॥
जीवो त्ति सत्थमिणं सुद्धत्तणतो घडाभिधाणं व । जेणऽत्थेण सयत्थं सो जीवो अध मती होज्ज ॥२०३०||
अत्थो देहो च्चिय से तं णो पज्जायवयण भेतातो । णाणादिगुणो य जतो भणितो जीवो ण देहो ति ॥२०३१ ॥
जीवो गाहा [२] | जीव इत्येतदभिधानमर्थवत् व्युत्पत्तिमत्त्वे सति शुद्धपदत्वात्। इह ं यद् व्युत्पत्तिमत् शुद्धपदं च तदर्थवद् दृष्टं यथा घटाभिधानम् । यदनर्थकं न तद् व्युत्पत्तिमच्छुद्धपदं च यथा डित्थः स्वरविषाणं च । येनार्थेनार्थवदिदं जीवाभिधानं स जीवः । तस्मादस्तीति ।
अथ मतिः [न] जीवाभिधानस्यार्थवत्त्वं प्रत्याचक्ष्महे, किन्वेतद्देहमात्र एवानुप्रयुज्यमानमनुश्रूयते - यथैष जीवो यथैनं न हिनस्तीत्यतो देह एवार्थोऽस्य युक्तः । तच्च न, पर्यायवचनभेदात् । इह यत्र पर्यायवचनभेदस्तत्रान्यत्वं प्रतीयते यथा घटाकाशयोः, तत्र घटकुम्भादयो घटपर्यायाः नभोग्यो माम्बरादयश्वाssकाशपर्यायाः, जीवशरीरयोरपि च पर्यायवचनभेदः प्रतीतः, तद्यथा जीवः प्राणी भूत इत्यादयो जीवस्य, देहः कायः तनुरित्यादयः शरीरस्य । तदेकत्वे वाभिधानसंकरप्रसङ्गस्ततश्चाभिधेयसं करैकत्वादयः । यत्पुनरिदमुक्तमेष जीवो यथैनं न हिनस्तीति तच्छरीरसहचरणस्थानादितो नीवस्य शरीरे तदुपचारः । इदमपि चानुश्रूयते गतः स जीवो दह्यतामिदं शरीरम् । यतश्च प्रागपदिष्टं-न विज्ञानादिगुणो देहो, मूर्तिमत्वात्, घटवत्; शरीरेन्द्रियातिरिक्तश्च विज्ञाता, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणाद्वातायनपुरुषवत् ||२०३०-३१॥
जीवोsत्थि वयो सच्चं मव्वयणातोऽवसेसवयणं व्व । [१३५-द्वि०] सव्वण्णुवयणतो वा अणुमतसव्वण्णुत्रयणं वै ॥२०३२ ||
३५१
जीवो गाहा । जीवोऽस्तीत्येतद्वचः सत्यम् मद्वचनत्वात् । इह यन्मद्वचनं तत्सत्यम्, यथा शेषवचनम्, यथा वा शेषभवदादिविज्ञानोपलब्धिवचनम् । यच्चासत्यं न
'निपतौ ।
'मि ने ।
Jain Educationa International
को है।
For Personal and Private Use Only
U नाते।
www.jainelibrary.org