________________
३५० विशेषावश्यकभाष्ये
[नि०४४३भवति नाविद्यमाने' इति । खरस्य च विषाणमिति तत् खर एव न स्यादन्यत्र तु गवादावस्त्येवेति न दोषः । विपर्ययेऽपि चायमेव न्यायः । यथा विद्यमान एव हि स्थाणुपुरुषे स्थाणौ पुरुषाभिमानो भवति, नाऽविद्यमाने, तथा भवदभिप्रायाद्यो हि शरीरेऽस्मदादीनामात्माभिमानो नासावात्मानमन्तरेण युक्त इति ॥२०२७॥
अत्थि अजीवविवक्खो पडिसेधातो घडो'ऽघडस्सेव । पत्थि घडो त्ति य जीवत्थित्तपरो पत्थि सद्दोऽयं ॥२०२८॥
अत्थि गाहा । प्रतिपक्षवानयमजीवः, व्युत्पत्तिमच्छुद्धपदप्रतिषेधात् । इह यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधः श्रूयते, स प्रतिपक्षवान् दृष्टो, यथा अघटो घटप्रतिपक्षवान् । यश्च न प्रतिपक्षवान्न स व्युपत्तिमच्छुद्धपदादिप्रतिषेधवान्, यथा अखरविषाणमडिस्थ इत्यादि । तथा अँजीवाभिधानमपि जीवास्तित्वप्रसाधकमेवेति पूर्ववेत् घटप्रतिषेधवत् ॥२०२८॥
असतो णत्थि णिसेधो संजोगातिपडिसेधतो सिद्धं । संजोगातिचतुकं 'पि सिद्धमत्यंतरे णियतं ॥२०२९॥
असतो गाहा। योऽयमात्मनः प्रतिषेधोऽभिधीयते भवता स विद्यमानस्यैव नाविद्यमानस्य संयोगादिमात्रप्रतिषेधात् । इह यत् प्रतिषिध्यते तस्य विद्यमानस्यैव संयोगादिमात्रप्रतिषेधो दृष्टो नाभावः, तद्यथा-नास्ति घटो गेह इति विद्य मानयोरेव गेहघटयोः संयोगादिमानं प्रतिषिध्यते, न तयोरस्तित्वम् , तथा अस्ति खरविषाणमिति विद्यमानस्यैव स्वरस्य विषाणस्य च] समवायमानं निषिध्यते, न सर्वथास्तित्वम्, तथा नास्त्यन्यश्चन्द्रमा इति विद्यमानस्यैव चन्द्रमसः, द्वितीयं चन्द्र. मसमन्तरेण सामान्यमात्रप्रतिषेधो न चन्द्रमसः, तथा न सन्ति घटप्रमाणा मुक्ता इति विद्यमानानामेव मुक्तानां घटप्रमाणविशेषमात्रप्रतिषेधो न मुक्तास्तितायाः । तथा नात्यात्मेति विद्यमानस्यैवात्मनो यत्र क्वचन येन केनचित् संयोगमात्रं प्रतिषिध्येत त्वया, न सत्त्वम्, तथा समवायादिनिषेधोऽपि नात्मनिपेधः । आह-यदि यत् प्रतिषिध्यते तदस्ति, न मे त्रिलोकेश्वरत्वमस्तीति तदपि स्यात् । न च पश्चमः प्रतिषेध इति सोऽपि स्यात् । उभ्यते-त्रिलोकेश्वरस्वमात्रप्रतिषेधात् पञ्चमविशेषमात्रप्रतिपेधाश्च । नैव तदपि संयोगादिनिषेधचतुष्टयमतिवर्तते । आह-ननूक्तं भवतैव संयोगादिमात्रप्रतिपेधादिति संयोगादीनामसतां प्रतिषेधस्तद्यथा नास्ति घटो गेह इति गेहघटयोः संयोगस्यासतः प्रतिषेधः, तथा समवाया
१ घडो घ जे । २ प त को है । ३ ‘दो य जे । ५ तथा न जी-इति प्रतौ । ५ वन्न ५-इति प्रतौ । ६ क प सि त।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org