SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ૩૪૮ विशेषावश्यकभाष्ये [नि०४४३लिङ्गदर्शनादेवदत्तशरीरेऽनुमीयतेऽस्तीति । यद्येवमात्मापि स्यात् को दोषः ? आहयद्येवं ततः शशलिङ्गोपलक्षितं शशविषाणमप्यस्तु । उच्यते-यत एव शशे विषाणं नानुमीयते ग्रहश्चानुमीयते, अत एवानेकान्तः । इदं चात्मनोऽनुमानमुच्यते ॥२०२०-२१॥ देहस्सत्थि 'विधाता पतिणियताकारतो घडस्सेव । अक्खाणं च करणतो दण्डातीणं कुलालो व्य ॥२०२२॥ देहस्स गाहा । विद्यमानकर्तृकमिदं शरीरमादिमत् , प्रतिनियताकारत्वात् । इह यदादिमत् प्रतिनियताकारं च, तद्विद्यमानकर्तृकं दृष्टम्, यथा घटः । यच्चाविद्यमानकर्तृकम्, न तदादिमत् प्रतिनियताकारं च, यथाऽभ्रादिविकारः । यश्चास्य कर्ता स जीवः । तस्मादस्ति जीवः । विद्यमानाधिष्टातृकाणीन्द्रियाणि, करणत्वात् । इह यत्करणं तद्विद्यमानाधिष्ठातृकं दृष्टम्, यथा कुलालाधिष्ठाना दण्डादयः । यच्चाऽविद्यमानाधिष्ठातृकं न तत् करणम्, यथाकाशम् । यश्चैषामधिष्ठाता स जीवः । तस्मादस्तौति ॥२०२२॥ अत्थिन्दियविसयाणं आदाणादेयभावतोवस्सं । कम्मार इवादाता लोए संदौसलोहाणं ॥२०२३॥ अथिन्दि० गाहा । इह विद्यमानाऽऽदातृकमिदं विषयकदम्बकम् , आदानादेयभावात् । इह यत्राऽऽदानाऽऽदेयभा, तत्र विद्यमानाऽऽदातृकत्वं दृष्टम्, यथा संदंशाध्यस्पिण्डयोः अयस्कारादातृकता । यच्चाविद्यमानाऽऽदातृकं न तत्राऽऽदानाऽऽदेयभावो यथाऽऽकाशे । यश्च विषयाणामिन्द्रियैरादाता स जीवः । तस्मादस्तीति ॥२०२३॥ भोत्ता देहादीणं भोज्जत्तणतो जरो व्च भत्तस्स । संघाताति[१३३-०]त्तणतो अस्थि य अत्थी घरस्सेव ॥२०२४॥ भोत्ता गाहा । विद्यमानभोक्तकमिदं शरीरादि भोग्यत्वात् । इह यद्भोग्य तद्विद्यमानभोक्तकं दृष्टम्, यथाहारवस्त्रादि । यच्चाविद्यमानभोक्तकं न तद्भोग्यं यथा खरविषाणम् । यश्चैषां शरीरादीनां भोक्ता स जीवः । तस्मादस्तीति । विद्यमानस्वामिकं शरीरेन्द्रियादि, संघातत्वात् । इह यत्सङ्घातात्मकं तद्विद्यमानस्वामिकं दृष्टम्, यथा १ विहाया हे को त। विवातो जे। द्रष्टव्या गा० २१२२ । २ सूत्रकृतांग चूणि १. १. १२.। ३ द्रष्टव्या गा० २१२३ । ४ संडास को हे त । ५ 'नादाकर्तृत्व-इति प्रतौ। ६ द्रष्टव्या गा० २१२१ । ७ घड जे। ८ वस्त्वा-इति प्रतौ। । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy