SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ नि०४४३ ] गणधरवादे जीवसिद्धिः । ३४७ णाणा० गाहा । उच्यते - न विज्ञानादिगुणो देहस्य, मूर्तिमत्त्वाद्, घटादिवत् । तथा चाक्षुषत्वादित्यादि । न चापेद्रव्यता गुणस्येत्यतो यो विज्ञानादिगुणः स देहादर्थान्तरमात्मेति । आह- ननु प्रत्यक्षविरुद्धमिदम् - न विज्ञानादयो देहस्येति, यथैन्द्रियकत्वादश्रावणः शब्दो रूपादिवदिति । उच्यते-न, अनुमानसद्भावात् - इहेन्द्रियातिरिक्तो 1 विज्ञाता तदुपलब्धार्थानुस्मरणात् । यो हि यदुपरमेऽपि यदुपलब्धमर्थमनुस्मरति, स तस्मादर्थान्तरमुपलब्धा दृष्टः, यथा पञ्चवातायनोपलब्धार्थानुस्मर्त्ता देवदत्त इत्यादि वायुभूतिप्रश्नेऽपि च वक्ष्यामः ॥२०१७॥ इय तुह देसेणायं पच्चक्खो सव्वधा महं जीवो । अविहतणाणतणतो तुह विष्णाणं व पडिवज्जै ॥२०१८॥ इय गाहा । इत्येवमेकदेशप्रत्यक्षोऽयमात्मा भवतः । सर्वस्य जीवादिवस्तुनोऽनन्तपर्यायत्वाद्भवदादेश्च छद्मस्थस्य विज्ञानदेशप्रकाशवत् । सर्वथाऽयमस्मत्प्रत्यक्षो विहितानन्तज्ञानत्वाद्भवद्विज्ञानोपलब्धिवत् । यथा भवद्विज्ञानमतीन्द्रियमशेषमहमुपलभे तथात्मानमपीति प्रतिपद्यस्व || २०१८ || एवं चिय परदेहेऽणुमाणतो गे‍ जीवमत्थि ति । अणुवित्तिणि वित्तीतो विष्णाणमयं सरुवे व्व ॥ २०१९॥ एवं गाहा । एवमेव परशरीरे गृहाणाऽऽत्मानमनुमानतः । कथम् ? इह परशरीरमपि हि विद्यमान विज्ञानादिगुणम्, इष्टानिष्टयोः प्रवृत्तिनिवृत्तिक्रियासद्भावात् । यदिष्टानि - ष्टयोः प्रवृत्तिनिवृत्तिक्रियास्वभावम्, तद्विद्यमानविज्ञानादिगुणमवसीयते, यथात्मशरीरम्, यच्च विज्ञानादिगुणविकलं न तदिष्टानिष्टप्रवृत्तिक्रियास्वभावम्, यथा घटः ॥ २०१९ ॥ जं च ण लिंगेहि समं मण्णसि लिंगी जतो पुरा गहितो । संग ससेण व समं ण लिंगतो तोऽणुमेयो सो ॥२०२० ॥ सो गंतो जम्हा लिंगेहि समं ण दिट्ठपुत्रो ि गहलिंगदरिसणात गोऽणुमेयो सरीरम्मि || २०२१॥ जं च गाहा । सो णे० गाहा । यच्चाभिधीयते - यतो न लिङ्गिनो लिङ्गसमेतस्योपलब्धिरभूत् कदाचिदपि विषाणस्योपगम समेतस्य, अतो न लिङ्गतोऽनुमेयोऽसाविति । नायमेकान्तो यतो न च तावद् ग्रहो लिङ्गसमेतः कदाचिदुपलब्धपूर्वः, अथ च १ चायं द्र - इति प्रतौ । २ वज्जा को । ३ गिण्ह हे । ४ सरूवं व जे । सरूवि व्व त । ४४. Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy