________________
नि० ५४१ ]
उपोद्घाते नयद्वारम्
५२१
पद् ग्रीवाकुक्षित्वक्त्राणादिभिः सद्भावासद्भावाभ्यामर्पितः सन कुम्भ इति, अकुम्भ इति वा वक्तुमशक्यत्वात् मेचका कारार्थाऽभावादवक्तव्यः । अथवा पृथग् भिन्नकालाभ्यां देशभेदेन वा स्वावयवेषु स्वपरपर्यायाभ्यां स्वतन्त्राभ्यामर्पणादुभयप्रधानत्वात् कुम्भचाकुम्भश्चेति भङ्गः । अथवैकदेशः स्वपर्यायैः सद्भावेनाऽर्पितः, एकदेशचोभयोपसजनतया युगपत् सद्भावासद्भावाभ्यामर्पित इति कुम्भश्चाववतव्यश्च भवति । अथ चैकदेशः परपर्यायैरसद्भावेनार्पितः, एकदेशश् चोभाभ्यामेककालेऽर्पित इति अकुम्भश्चावक्तव्यश्चेति [भवतीति । अथवैकदेशः स्वपर्यायैः सद्भावेनार्पितः एकदेशश्च परपर्यायैरसद्भावेनार्पितः, एकदेशश्चीभाभ्यामेककालेऽर्पितो ] भवतीति कुम्भा कुम्भाऽवक्तव्योभयरूपादिभेदोऽसौ इत्यादि ग्रहणात् सप्तभङ्गी । एतस्यां सप्तभङ्ग्यां शब्दनयो यथाविवक्षं कञ्चिदेकं भङ्गमिच्छति, नयत्वात् । स्याद्वादस्तु सर्वनयसामग्र्यात्मकः सप्तभङ्गी मिच्छति । एवं तावत् प्रत्युत्पन्नमविशेषितमृजुसूत्रस्य तदेव विशेषिततरं शब्दस्येत्युक्तम् ॥२७०३॥
इदानीं लिङ्गवचनाऽविशिष्टं वस्तु ऋजुसूत्रमतं शब्दस्य विशेषिततरं समानलिङ्गसमानवचनपर्यायं शब्दस्येत्याख्यायते—
वत्थुमविसेसतो व जं भिष्णाभिष्णलिंगवयणं पि । इच्छति रिजुमुत्तणयो विसेसिततरं तयं सदा ||२७०४|| वत्थु० गाहा । गतार्था ||२७०४ ॥
घणिभेतातो भेतो "थी पुंलिंगाभिप्राणवचाणं | कुंभाणं व जतो तेणाभिष्णत्थमिद्धं तं ॥ २७०५ ॥ धणिता ० गाहा । एका स्त्री दारा इति पुंल्लिङ्गेन बहुवचनेन ऋजुसूत्रस्यैक एवार्थः, शब्दनयस्य तु भिन्नार्थमेतदुभयम् भिन्नलिङ्गशब्दत्वात्, स्त्री कुम्भवत्, पटकुम्भवत् । तेनाभिन्नार्थमिष्यते घट - कुट-कुम्भवत् समानलिङ्गत्वात् ॥ २७०५ ।।
तो भावो च्चिय वत्थं विसेसितमभिण्णलिंगत्रयणं च । बहुपज्जायं पि मतं सत्यवसेण सदस्य || २७०६॥
तो भावो च्चिय वत्युं गाहा । बहुपर्यायमेव वस्तु अभिन्नलिङ्गवचनत्वात् इन्द्रशक पुरन्दरवत् एवं शब्दनयः || २७०६ ॥
• 'तो जे जे । २ वैसे जे पुल्लित । ५ कुम्भा । ६ भा
Jain Educationa International
त । ३ सद्धो हे । ४ स्थपुंलिङ्गा' हे । त्थी को । हे ।
For Personal and Private Use Only
www.jainelibrary.org