________________
नि० ५४१]
उपोद्धाते नयद्वारम् ।। गोत्वादयो निजाधारेषु गवादिषु 'गोर्गोंः' इत्यनुप्रवृत्तिबुद्धिहेतुत्वात् परतश्चाश्वादिभ्यो व्यावृत्तिहेतुत्वादुमयस्वभावाः सामान्यविशेषाख्याः ॥२६६२।।
तथा -- तुरकिति गुण किरिएगदेसऽतीताऽऽगतेऽणुव्वम्मि । अण्ण तबुद्धिकारणमंत विसेसो ति से बुद्धी ॥२६६३॥
तुल्ला० गाहा । आकृतिः संस्थानम् । परिमण्डलसंस्थानाः सर्व एव परमाण इति तुल्याकृतित्वं पार्थिवानाम् । पार्थिवाणुभिः सर्वेः समानगुणत्वम् । 'अणु-मनसोश्चायं कर्म वैशेषिकसत्रे अध्याय५, आह्निक२, सूत्र १४] इति अदृष्ट कारितक्रियावत्वं सर्वेषां समानमिति, आधारोऽप्येकाकाशदेशः, तस्मादाकाशदेशात् कश्चित् परमाणुरतिक्रान्तः कश्चिच्च तत्समकालमेव तत्रायातः, तत्र 'अयमन्यः पूर्वस्मात्' इति अन्यप्रत्ययो निर्णिमित्तः परमपरपि न भवति, दृष्टश्चान्य प्रत्ययः-तस्यान्यप्रत्ययस्य यो हेतुः सोऽन्त्यविशेषःतस्मात् 'परमाणुद्रव्यादन्यः' इत्येवं नैगमनयस्य 'बुद्धिः' मतमभिप्रायोऽध्यवसाय इति यावत् ॥२६६३॥
___ एवं ब्रुवन्नाचार्य एतद् दर्शयति-एतस्य नयस्यैत मतं मिथ्यादर्शनम् , नायं परमार्थ इति । अतश्चोदक आह-गमः सम्यादृष्टिरेव, द्रव्यार्थिक-पर्यायार्थिकमतावलम्बिस्वात् , जैनसाधुवत् । अतः किमिति मिथ्यादर्शनभेदोऽयमित्युच्यते ? एतदर्थप्रदर्शनी गाथा -
णणु दव्यपज्जये टियमतावलम्बि ति गमो चेत्र । सम्मदिही साधु व्य कीस मिच्छत्तभतोऽयं ।।२६६४।।
णणु दव्व० गाहा। भाविता ।।२६६४॥
अत्र प्रतिविधीयते --- [१७५-द्वि] जं सामण्णविसे से परोप्परं वत्थुणों य सो 'भिण्णे । मण्णति अच्चन्तमतो मिच्छदिट्टी कणादो ३ ॥२६६॥
जं सामण्ण • गाहा । यदेतत् प्रमाणमुक्तम् 'सम्यादृष्टिरेव नैगमः, द्रव्यार्थिकपर्यायार्थिकमतावलम्बित्वात्' इत्यथं हेतुरपक्षधर्मः, यद्वा साधनशून्यो दृष्टान्त इति दूषणद्वयमनया गाथया चोद्यते, यस्माद् न्यायशास्त्रे न वा(व)चनमात्रं हेतुः, किन्त्वों ज्ञानं चेति । तत्र नैगमनयः-द्रव्यार्थिकमतम् अत्यन्तभिन्न सामान्यम्, पर्यायार्थिकमतमपि-विशेषमत्यन्तभिन्नं परस्परतः, आधाराच्च वस्तुनोऽत्यन्तभिन्नमेव-मन्यत इति ।
१ लागई' हे । २ अवटि को हे त । ३ यनयाव को है । " "त्थुओ को हे त । ५ भिन्नो त । ६ अच्च को हे । ७ करणा त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org