________________
५१० विशेषावश्यकभाष्ये
[नि० ५४१ ग्रामो जनसन्निवेशः, उपमा उपमानं दृष्टान्तः, उपमायाः भाव औपम्यम्, निलयनप्रस्थक-ग्रामा एवौपम्यानि 'निलयन-प्रस्थक-ग्रामौपम्यानि' । आदिशब्दः प्रकारार्थे, एतदाद्या अन्येऽपि दृष्टान्ता द्रष्टव्याः । तैः [सं]सिद्धः' प्ररूपितः । तद्यथा-अनुयोगद्वारे वचनम् "दुविहो णेगमो सव्वसंगाही देससंगाही य । तस्सेतस्स दुविधस्मावि परूपणं कासामो वसहीदिलुतेगं, पत्थयदिटुंतेण य त्ति' इत्यादिः अविशुद्ध-विशुद्धानुगमः प्रपञ्चशः कर्तव्यः ॥२६५९॥
सामान्य-विशेषयोविवक्षानिगमी नैगमः इति । सामान्य विशेषश्चान्यः सामान्यात् भिन्ननिमित्तत्वात् , भिन्नकार्यत्वाच्च, घट-पटवत् । एतन्निरूपणायाह ---
सामण्णमण्णदेव हि हेतू सामण्णबुद्धि वयणाणं ।। तस्स विसेसो अण्णो विसेसमति-वयणहेतु ति ॥२६६०॥
सामण्ण० इत्यादि । न हि निर्णिमित्ता सामान्यबुद्धिर्वचनं वा प्रवर्तत इति तयोः सामान्यबुद्धि-वचनयोहे तुः प्रवर्तकं कारणं सामान्यमिति, विशेषबुद्धि-वचनहेतु. विशेषः निमित्तेन भिद्यन्ते(ते), कार्येण चेति अन्यत् सामान्यम्, अन्यो विशेष इति ॥२६६०॥
अथवा सामान्य विशेषयोः परस्परं भेदोऽस्तीति सिद्धम् । तदाधाराद् द्रव्यात् किमर्थान्तरं सामान्य-विशेषाविति ? अर्थान्तरत्वप्रतिपादनायाह -
सदिति भणितेऽभिमण्णति दव्वादत्थंतरं ति सामण्णं । अविसेसतो मतीए सव्वत्थाणुप्पवित्तीतों ॥२६६१।।
सदिति गाहा । सदिति यतो द्रव्य-गुण-कर्मसु सा सत्ता । द्रव्य-गुण-कर्माणि स्वलक्षणेभिन्नानि । तेषु भिन्नेष्वपि सर्वत्र सत्प्रत्ययानुप्रवृत्तरेकस्याः 'सत्'वुद्धेहे तुरेकैव सत्ता समवेता | सा च तेभ्योऽर्थान्तरभृता, एकत्वादेव । अनर्थान्तरत्वे सत्यैक्यवद् द्रव्य-गुण-कर्मणामप्यैक्यप्रसङ्गात् । अतो द्रव्य-गुण-कर्मभ्योऽर्थान्तरं सत्तेति ॥२६६१॥
एवमेव गोत्वादयो गवादिपु अनुप्रवृत्तिलक्षणं सामान्यम्, व्यावृत्तिलक्षणो विशेष इत्युभयरूपदर्शनाच्च -
गोत्तातयो गवातिसु णिययाधाराणुवित्तिबुद्धीतो । परतो य णिवित्तीतो सामण्णविसेसणामाणो ॥२६६२।।
१ अनुयोगद्वारे नैवरूपः पाठः उपलभ्यते । तत्र “से किं तं नयप्पमाणे ? नयप्पमाणे तिविहे पन्नत्ते, तं जहा-पत्थगदिटुंतणं"-इत्यादिरूपलम्यते-द्रष्टव्यम् अनु० सू० १४८ । महावीर विद्यालयद्वारा प्रकाशिते अनुयोगद्वारे पाठान्तरमत्र द्रष्टव्यम्-अनु० सू० ४७३ । २ 'यणेर्ण त । ३ त्तीए को हे । ४ गातात जे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org