________________
५००
विशेषावश्यकभाष्ये [नि० ५३६मान्यस्यैवाऽर्पणविशेषाद् विशेषत्वम् , विशेषस्य वाऽर्पणविशेषादेव सामान्यरूपत्वम् , नैतदत्यन्तभिन्नजातीयम्, न चैकमेवैकान्ततो वस्तु स्याद्वादसामर्थ्यात् ॥२६२५॥
वाहिरचेढागारो लविखज्जति जेणे माणसागृतं । [१७३-०] आहारादिच्छा हत्थ-णेत्त वत्तादिसण्णाहिं ॥२६२६॥
वाहिरचेट्ठागारो इत्यादि । आक्रियतेऽनेनाभिप्रेतं गृह्यते-ज्ञायते-इति यावत् , स अगकारः आकूतं येन लक्षणेन [लक्ष्यते परस्य, तदाकारलक्षणं बाह्यचेष्टा । कुतो बाह्यत्वम् ? मनसाऽकृतत्वात् । स च-बाह्या चेप्टा-हस्त-वदन-नेत्रादिव्यापारः । अभ्यन्तरचेष्टा आहारादीच्छा, तद् आन्तरमाकूतं हस्तसंज्ञया बाह्यया लक्ष्यत इति आकारः लक्षणम् ॥२६२६।।
गत्यागतिलक्षणमिदानीम् - अपरोप्परं पदाणं विसेसणविसेसणिज्जता जत्थ । गच्चागती य दोण्इं गच्चांगतिलक्खणं तं तु ॥२६२७॥
अपरोप्परं पदाणं इत्यादि । द्वयोर्द्वयोः पदयोर्विशेषणविदोग्यता-अपरस्परशब्दः पदद्वयविषयः, प्राकृते द्विवचनस्याभावात् द्वित्वेऽपि बहुवचनं 'पदानाम्'इति तयोईयोरपि पदयोर्गत्यागती-गतिरनुकूलगमनम् , तस्यैव प्रत्यावृत्या प्रातिकृत्येन गमनमागतिरुच्यते । गतिश्चागतिश्च गयागती, ताभ्यां गत्यागतिभ्यां लक्षणं गत्यागतिलक्षणम् ॥२६२७॥
तत् पुनश्चतुर्दापुव्यावरोभयेमुं वाहतमव्वाहतं च तं तत्थ । जीवो देवी देवो जीवो त्ति विकप्पणियमोऽयं ॥२६२८॥
पुव्वापरो गाहा । व्याघातो व्यभिचारः । पूर्वमाद्यमित्यर्थः अपरमुत्तरपदमित्यर्थः । [पूर्व पदव्यभिचारः], उत्तरपदव्यभिचारः, उभयपदव्यभिचारः, अव्यभिचार इति । तत्रोदाहरणानि आह -जीवो देव इति पूर्वपदव्यभिचारः, देवो नियमादवधारणाजीवः उत्तरपदमव्यभिचारि, जीवस्तु स्यादेवः स्याददेवो मनुष्यादिरिति पूर्वपदव्यभिचारः । देवो जीवः इत्येव विशेष्यताप्रक्रमे 'देव'पूर्वपदमव्यभिचारि, 'जीव'उत्तरपदं व्यभिचारीति स्याइव: स्याददेव इति विकल्पाद् व्यभिचारः । नियमोऽवधारणमव्यभिचार इत्यर्थः । जीव
१ स्यैवालक्षणार्पणं विशे-इति प्रतौ। २ रचिट्ठा' को हे । ३ उजए हे । ४ तेण हे त । ५ हत्थव यणनेत्ता को, हे हत्थवयणेत्ता त ६ कृतं इति प्रतौ । ७ गच्छाग जे ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International