________________
४९९
नि० ५३६]
उपोद्घाते लक्षणद्वारम् । तुल्लाकारदरिसणं सरिसं दव्वस्स लक्खणं तं पि । जध घडतुल्लागारो घडो त्ति तध सव्वमुत्तीसु ॥२६२३।।
तुल्लाकारदरिसणं सरिसमित्यादि । तुलया सम्मितं तुल्यं समपरिणामित्वात् । आकरणमा कृतिराकारः संस्थानविशेषः । तुल्य आकारो यस्य तत् तुल्याकारम् । दर्शनं प्रत्ययः प्रतीतिः । तुल्याकारस्य प्रतीतिः-तुल्याकारस्य दर्शनं सदृशमुच्यते । समानदृक्त्वं यत्र द्रष्टणां तत् सदृशम्- यथा-घटतुल्याकारोऽन्यो घट इति सदृशाकारता द्रव्यलक्षणम् । एवं सर्व मूत्तिंपु आकारवत्त्वात् ॥२६२३॥
अमूर्तेषु सामान्यलक्षणं वक्ष्यते । तच्चेदम्सामण्णमप्पितमणप्पितं च तत्थंतिमं जधा सिद्धो । सिद्धस्स होति तुल्लो सब्बो सामण्णधम्मेहिं ॥२६२४॥
सामण्णमप्पितमणप्पितं चेत्यादि । 'ऋ गतौ' इत्यस्य धातोर्णिजन्तस्य प्रयोज्यकर्तरि अर्पितम्-उपनीतम्-विवक्षितम्-आमृष्टम्-विशेपितमित्यर्थः । तद्विपर्ययादैनर्पितम् । एतद्वयोः प्रक्रान्तयोः 'अन्तिमम्-यथा सिद्धः' इत्येवं सामान्यधर्मार्पणात् यथाविवक्षितानर्पितोदाहरणम् । सद्-द्रव्य-जीव-मुक्तामूर्त-ऽक्षायिकसम्यक्त्व-ज्ञान-दर्शन-भव्यत्वविगमसिद्धत्वादिसामान्यधर्मेः सिद्धः सिद्धस्य सर्वस्य तुल्य इति सामान्यलक्षणम् ॥२६२४॥
एगसमयातिसिद्धत्तणेण पुणरप्पितो स तस्सेव । तुल्लो सेसाऽतुल्लो सामण्णविसेसधर्म त्ति ॥२६२५॥
योऽसावनर्पितनयस्य(श्च) सिद्धस्य(श्च) द्रव्यामूर्तत्वादिभिः सामान्यधर्मेः सर्वसिद्धानामन्येषां तुल्यः, स एव पुनरर्पितः-एकसमयसिद्धवेन अथवा द्विसमयसिद्धत्वेन संख्येयसमयसिद्धत्वेन अनन्तसमयसिद्धत्वेनेत्यादि, आदिग्रहणस्यैतत् फलम्स एकसमयसिद्धत्वेनार्पितो विशेषधर्मण तस्यैव तुल्यः । कस्येति चेत् ? प्रकृतत्वादनन्तरविशेषधर्मेणार्पितस्यान्यस्य एकसमयसिद्धस्यैव, न द्विसमयादिसिद्धस्य । अत एव आह-'सेसाऽतुल्लो' एकसमयसिद्धत्वविशेषधर्माप्तिादन्यः शेषः द्विसमयादिसिद्धः । ते चानन्ताः शेषास्तेषां शेषाणामतुल्यः शेषातुल्यः । कुत एतदिति चेत् ? अत उपपत्तिमाह-'सामान्यविशेषधर्मत्वात्' सामान्यविशेपा धर्मा यस्य स सामान्यविशेषधर्मा, तद्भावः सामान्यविशेषधर्मत्वम्, तस्मात् सामान्यविशेषधर्मत्वात् । यथा सिद्धस्तथा सर्वे पदार्थाः । एवमुक्तं सामान्यलक्षणम्, तदविनाभावि विशेषलक्षणमपि, सा
१ तादुच्य ल'-इति प्रतौ । २ दनिपि इति प्रतौ। ३ तर्पित इति प्रतौ । ४ 'द्रव्याजी इति. प्रतौ । ५ सेसोऽतु को त । ६ धम्मो को हे त । . क्षणात्मतद-इति प्रतौ ।
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International