________________
नि० ५२२]
पविधकारणनिरूपणम् । कम्मं । कर्म च कारकं चेति व्यपदेशात् कारणम् । कस्य ? कार्यस्येति । ननु कार्य कर्म चेत्, कमैव वस्तु । तत् कथं स्वात्मन एव कारणं भवति ? कारण स्वयं लव्धात्मलाभम् । अलब्धात्मलाभस्य कार्यस्य निर्वर्तनाय क(का)रणं भवतीति । तत् पुनः स्वयमलब्धात्मलाभं कथं स्वस्यैव कारणतां प्रतिपत्स्यत इति ? न हि सूच्यग्रं स्वमात्मानं विध्यति, स्वात्मनि क्रियाविरोधादिति ।
___ अथ आहाचार्यः- सत्यम् , साक्षात् कर्म कर्तुरीप्सितत कार्यस्य कारणं न भवति, पारम्पर्येण भवतीत्युपचारात् कर्म कारणं कार्यस्य । यासौ कर्तुः क्रिया कार्यनिर्वर्तनक्षमा, तस्याः क्रियायाः कारणं कर्म वा कर्माधारा सा क्रियेति कृत्वा । सा च क्रिया कर्मेत्युपचयते, तया निवर्त्यमानत्वात् । कर्म तु कार्यम् , यत एव
निर्वयं वा विकार्य वा प्राप्यं वा तत् क्रियाफलं । तदृष्टादृष्टसंस्कारं कर्म कर्तुर्यदीप्सितम् ॥
अथ ब्रूयात् कश्चित्-कर्म कार्यस्य कारणमिति निर्मातव्ये क्रिया कर्मकारणमुच्यते इति अप्रस्तुताभिधानसम्बन्धमिव लक्ष्यते । आचार्यः-क्रिया हि चेष्टा कर्तुः, तया चेष्टया कर्ता कर्भ निष्पादयतीति क्रियैवात्र प्रधानम् , यतो निश्चेष्ट आकाशवन्न किञ्चित् साधयति । अथवा किमुपचारेण ? मुख्यमेव कर्मास्तु कर्तुरीप्सिततमम्-कुम्भकारः कुम्भं करोति कर्मण्युपपदे अल्प्रत्यय इति कुम्भ एव कर्म । तदेव तस्य कार्य निवर्त्यमिति स एव कुम्भः कारणं कुम्भस्य कार्यस्य । कथमिति ! यस्माल्लोके मृत्. पिण्डमईनचक्कारोपणदण्डग्रहणकाले कुम्भकारः पृष्टः किं करोषीति । प्रत्याह कुम्भं करोमीति । न ब्रवीति मृदं मृद्नामि, चक्रे आरोपयामि, दण्डकं गृह्णामीति वा । तस्मादेवं लक्ष्यते-कोऽपि बुद्धिस्थोऽर्थः कुम्भाख्यः कर्मास्य, येनोच्यतेऽस्यामवस्थायां कुम्भकार इति । स च बाह्योर्थ उत्पत्स्यमानो वर्तमानस्य विज्ञानस्वरूपस्य कुम्भस्य तदालम्बनत्वात् कारणम् , कुम्भवुद्धेहेतुत्वादिति । अत एव लोकव्यवहारः सर्वत्र भाविनि भूतवदुपचार इति ॥२५८५।।
ततः(त्)समर्थनी गाथाभव्यो ति व जोगो ति व सक्को ति व सो सरूवलाभस्स । कारणसणेज्झम्मि वि जं णागासत्थमारंम्भो ॥२५८६।।
भव्वो त्ति । भविष्यतीति भव्यः, भवनयोग्यः शक्यो वा भावयितुम् । एवं बुद्धिस्थोऽसौ स्वरूपलाभस्य कारणम् । यतश्च कारणसन्निधानेऽपि यावन्न बुद्धयाऽऽलो.
१ न तर्हि सू-इति प्रतौ। न हि को। २ स्यानव-इति प्रतौ । ३ जोग्गो को हे। ४ संनेज्झ को। संनिज्झ हे। ५ 'रंभो को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org