________________
४३६ विशेषावश्यकभाष्ये
[नि० ४७५ एतं चिय विवरीतं जोएज्जा सव्वपावपक्खे वि । अथ साधारणोभयरूपैकत्वपक्षनिराकरणाय गाथापश्चाई-ण य साधारणस्वं कर्म, तत्कारणाभावात् । नास्त्यु. भयरूपं कर्म अभूतैवंविधकारणत्वात्, वन्ध्यापुत्रवत् ॥२३८९।। कदाचित् कश्चिदस्य हेतोरसिद्धत्वमाशङ्केत तत्प्रसाधनाथ गाथा
[१५७ -द्वि.०] कम्म जोगणिमित्तं मुभोऽसुभो वा स एगसमयम्मि । होज्न णे तूभयरूवो कम्मं पि तो तदणुरुवं ॥२३९०।।
कम्मं जो० गाहा । "मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः" [तत्वाथ०८.१] इति पर्यन्ते योगाभिधानात् सर्वेषु मिध्यादर्शनादिप्वपि योगाऽविनाभावाद(द) बन्धहेतुमि(रि)ति कर्म योगनिमित्तमुच्यते । स च योगो मनोवाक्कायात्मकः एकस्मिन् समये शुभोऽशुभो वा भवेदेकरूपरतस्मात् कारणानुरूपकार्यत्वात् कर्मापि शुभमशुभं वा, नोभयरूपमिति । तस्मादभूतैवंविधकारण वादिति सिद्धः पक्षधर्म: २३९०॥
एवमप्यभिहिते योगानां कर्मकारणभावानां कार्येण द्रव्येण शुभाशुभरूपेण दृष्टेन कारणानां योगानां शुभाशुभत्वमुभयसिद्धमिति स्मारयन्नाह
णणु मणवइकाययोगा सुभासुभा वि समयम्मि दीसंति । दव्वम्मि मीसभावो भवेज्ज ण तु भावकरणम्मि ॥२३९१॥
णणु मणवइकाययोगा इत्यादि । एकस्मिन् समये मनोवाक्काययोगानां प्रकर्पापकर्षवैचित्र्यात् सर्वनिकृष्टसर्वोत्कृष्टयोरन्तराले शुभाशुभत्वमुपलभ्येत इति शुभाशुभोभयरूपं कर्मणः कारणमस्तीति पुनरप्यभूतैवंविधकारणत्वमसिद्धो हेतुः । एत. दप्यन्यविषयं शुभाशुभत्वमिति सिद्धत्वमेव हेतोरिति दर्शयति-द्रव्यात्मके योगे शुभाशुभत्वमिश्रत्वं भवेत् , न तु भावकारणे भावात्मके योगे कर्मकारणे कदाचिदपि शुभाशु. भत्वं मिश्रं भवेत् , अवश्यमेकरूपेण शुभेन वाऽशुभेन वा भवितव्यमिति ॥२३५१॥
तस्यैव ज्ञापकमुपचयकारणमाहझाणं सुभमसुभं वा ण तु मीसं जं च झाण विरमे वि । लेस्सा सुभासुभा वा मुभमसुभं वा ततो कम्मं ॥२३९२।।
झाणं सुभममुभं वा इत्यादि । एवं कर्मणो बन्धपरिणामकाले योगानां ध्यानकाले ध्यानोपरमे वा शुभत्वमशुभत्वं वैकरूपमेव, न मिश्रता सिद्देति कर्मणोऽपि तद्वदेव कार्यस्य भविष्यति ॥२३९२।। अथवा
पुव्वगहितं व कम्मं परिणामवसेण मीसतं णेज्ज । इतरेतरभावं वा सम्मामिच्छादि ण तु गहणे ॥२३९३।। १ न उ उभ' हे । २ लेसा को हे। ३ च को हे । ४ नेजा को हे । च्छाई को हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org