________________
४२५
नि० ४७१]
गणधरवादे मारकसिद्धिः। पावफलस्स पेकिट्ठस्स भोइणो कम्मतोऽवसेस व्व । संति धुवं तेऽभिमता णेरइया अध मती होज्नं ॥२३५४॥ अच्चत्यदुक्खिता जे तिरियणरा णारगं त्ति तेऽभिमता । तं ण जतो सुरसोक्खप्पगरिससरिसं ण तं दुक्खं ।।२३५५।।
पावफलस्स गाहा । अत्यन्तप्रकृष्टपापफलं विद्यमानभोक्तकम् , कर्मतः--कर्मफलत्वादित्यर्थः, : अवशेषवदिति दृष्टान्तः । नारकेभ्योऽन्ये स्वकर्मफलभोगिनः सन्ति तद्वन्नारका इत्यर्थप्रेदर्शना दृष्टान्तफलम् । प्रयोगदृष्टान्तस्तु साध्यसाधनानुगतः प्रकृष्टपुण्यफलवत् । विद्यमानभोक्तकं प्रकृष्टपुण्यफलमिति दृष्टान्तसिद्धया प्रकृष्टपापफलं विद्यमानभोक्तकं चैतत् । ततोऽस्मात् सामान्यतोदृष्टादनुमानान्नारकसिद्धिरिति । ___एतद्विघातयन् कश्चिदाशङ्केत-एवमपि न नारकसिद्धि, साक्षान्नारकास्तित्वधर्मानन्वयात् , केचित् प्रकृष्ट पापफल भुन इति सामान्यसिद्धेः सिद्ध साधनमिदम् । प्रकृष्टपापस्य फलभुजस्तिर्यञ्चो मनुष्याच सन्तीति सिद्धं प्रसाध्यते । ततः साधनवैफल्यादननुमानमिति एवं परमतमाशङ्कयाचार्य आह-अधव मती होज-अच्चत्यदक्खिता जे तिरियणरा णारग त्ति तेऽभिमता । अत्यर्थदुःस्विता प्रकृष्टपापफलभुजः तिर्यङ्मनुप्याः एव यदि नारका अभिमता मनुजसंज्ञामात्रे विप्रतिपत्तिः । तेषामेव नारकसंज्ञायां सिद्धसाधनमित्युच्यते । गाथापश्चार्द्धम्- तं ण जतो सुरसोक्खपर्गरिससरिसं ण तं दुक्खं । ग(न) ते तत्सिद्धसाधनम्, यस्मात्तियेङ्मनुष्याणां प्रकृष्टपापाभावः, यस्मादुक्तम् --
___ "जं अतिदुक्खं लोए जं च सुहं उत्तमं तिभुवणम्मि ।
तं जाण कसायाणं वुद्धिक्खयहेतुयं सव्वं ॥" तच्चातिदुःखं नारकेश्वेव अतिसौन्यं चानुत्तरविमानवासिदेवेषु । यत एवमागमः
"सततानुबन्धयुक्तं दुःखं नरकेषु तीत्रपरिणामम् । तिर्यक्षु भयक्षुत्तडादिदुःखं सुखं चाल्पम् ॥ - सुखदुःखे मनुजानां मनःशरीराअ(श्र)ये बहुविकल्पे ।
सुखमेव तु देवानां दुःखं स्वल्पं तु मनसि भवं ॥" तस्मादेव सुरसौख्यप्रकर्षात् , दृष्टान्तसाधर्म्यान्नारकदुःखप्रकर्षाधिगतिरिवशब्दादेव भवति । यत एवमुच्यते ।
१ पगिट्ठ को हे। 'झुम्सा त । २ होज्जा को हे । ३ 'रगु त्ति त। ४ मतं त । ५ इत्यर्थः-इति प्रतौ । ६ पकरि -इति प्रतौ। ७ बुद्धि-इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org