________________
विशेषावश्यकभाप्ये
[नि० ४७१पुचोवलद्धसंबंध सरणतो वाऽणलो व्च धृमातो । अधव णिमित्तंतरतो णिमित्तमक्खस्स करणाई ॥२३५२॥
'पूर्वोपलब्ध' इत्यादि । न प्रत्यक्षमिन्द्रिय नं पूर्वोपलब्धसम्बन्धस्मरणादुपजायमानावात् , धूमादनलज्ञानवत् अन्यनिर्दिष्ट हेतुजमिति । अनुमानं द्विविधं यच्चानुमेये तदवधारणं ज्ञानं प्रत्यक्षज मानुमानिकं वा । यच्च तस्यैव साध्येनाविनामावित्वस्मरणम् । तदेवं साक्षात् पारम्पर्येण वानुमितिकारणत्वादुभयमप्यनुमानम् । एवं च साध्यसाधनधर्मानुगमः प्रदर्शितो भवति ।
ननु धर्मिणीन्द्रियजज्ञाने पूर्वोपलब्धसम्बन्धस्मरणादुपजायमानत्वमसिद्धत्वादपक्षधर्मः । उच्यते - न, वस्तुस्वरूपानवधारणात् । यथावस्थितवस्तुस्वरूपं ह्येकान्तवादिभिर्नावगम्यते, यतश्चक्षुरादिद्वारेणापि भवति घटो नामैवविध इति पूर्वविदितेनैव समयेन अपि च घटमध्यवस्यति । न ह्यनभिज्ञो घटमवैति । एवं रूपग्रहणेऽपि पूर्वविदितेनैव समयेन तासम्बन्धस्मरणोत्तरकालं रूपमिदमिति परिच्छेदः, स्वरूपकल्प. नायाः अप्रतिषिद्धत्वात् । बालदारको हि जातमात्रः चक्षुःप्रणिधानेऽपि रूपमिदमिति वा न परिच्छिनत्ति, अविदितसमयत्वात् , पूर्वोपलब्धस्मरणाभावात् । अतः चक्षुरादिज्ञानेऽपि पूर्वोपलब्धस्मरणमेव कारणमिति सिद्धः पक्षधर्मः । शंषं दृष्टान्तस्वरूपं भावि. तमेव । अथ चान्यत् प्रमाणं गाथापश्चाद्धेन प्रकाश्यते-न प्रत्यक्षमिन्द्रियजज्ञानं आत्मनो निमित्तान्तरादुपजायमानत्वात्, धूमानिमित्तादग्निज्ञानवत् । आत्मनश्चाक्षशब्दवान्यस्य निमित्तान्तरमिन्द्रियाणि करणानि । तेभ्यो ज्ञानस्योपजायमानत्वादिति पक्षधर्मः । अग्निज्ञानादपि धूमो निमित्तान्तरमेवेति साध्यसाधनानुगमनम्, एवमिन्द्रियप्रत्यक्षस्याप्रत्यक्षत्वात् ॥२३५२॥
केवलमणोधिरहितस्स सव्वमणुमाणमेत्तयं जम्दा । णारगसब्भावम्मि य तदस्थि जं तेण ते संति ॥२३५३।।
केवलमणोधिरहितस्सेत्यादि । केवलमिति सर्वप्रकारं निरावरणज्ञानम् । मनोग्रहणेन मनःपर्यायज्ञानम् । अवधिग्रहणेनावधिज्ञानम् । एतत्त्रितयविरहितस्याभिनिबोधिकश्रुतज्ञानिनः परोक्षज्ञानस्य सर्वज्ञानमनुमानमात्रकमेव यस्मात् , तस्मादनुमानेनैव प्रायो लोकव्यवहार इति । नारकसद्भावे च तदस्त्यनुमानम्, तस्मादनुमानपरिच्छेद्यस्वात् प्राक्प्रतिज्ञायामनुमानानुपलभ्यमानत्वमसिद्धो हेतुः, अनुमानसद्भावाच्चानुमानविरोधिनी प्रतिज्ञा, नास्तित्वप्रतिज्ञालोपाच्च ते सन्ति नारकाः ॥२३५३॥ तच्चेदमनुमानम् -
१ संबद्धमर जे । २ पूर्वविदितितेन स- इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org