SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०१२७, वि०पृ० ५६४ विक्षेपादनर्थित्वाद्वा विशेषस्मृत्यभावे न संशय इति तदर्थं विशेषापेक्ष इति पदम् । एवमनुपलब्धावपि पदत्रययोजना कार्या । ॥ सिद्धान्तलक्षणे ॥ इत्थम्भावव्यवस्थेति' अस्य विवरणं धर्मनियम इति । शब्दस्य सामान्येन सिद्धस्येत्थम्भावव्यवस्था अनित्य एव शब्द इत्यनित्यत्वाख्यधर्मनियमः । इतरेतरसम्बद्धस्यार्थसमूहस्येति । नासम्बद्वस्य दशदाडिमादिवत् । ब्रह्मवादिनां हि सर्वेवेयमविद्येति । ग्राह्यस्य प्रपञ्चस्यासत्यत्वात् । तद्ग्राहकस्य ज्ञानस्याविद्यात्वम् । सङ्ख्या- लक्षण - विषयविप्रतिपत्ति[स्त्विति ] | सङ्ख्याविप्रतिपत्तिः - "द्वे एव प्रमाणे" इत्यादिका । लक्षणविप्रतिपत्तिः - 'प्रत्यक्षं कल्पनापोढम्" इत्यादिका । विषयविप्रतिपत्तिः -- 'स्वलक्षणविषयं प्रत्यक्षम् इत्यादिका । ——— २२८ इन्द्रियव्यतिरिक्तो ज्ञातेति । एकार्थग्रहणादेकार्थताप्रसाधकात् प्रतिसन्धानलक्षणाद् हेतोरित्यर्थः । यदि हि एकमिन्द्रियं स्यात् तदा यमहमद्राक्षं तं स्पृशामीति तत्कृतमेव प्रतिसन्धानं भवेत् । यदि वाऽनियतविषयं स्यात् तदाऽप्यनियतविषयत्वादेकेनैवेन्द्रियेण प्रतिसन्धानं सिद्धयेद् विनाऽप्येकेनानियत विषयेण ज्ञात्रा । यदि गुणव्यतिरिक्तं द्रव्यं न स्यात् तदा विषयशून्यत्वात् प्रतिसन्धानस्य अप्रमाणं तत् स्यादेकार्थसिद्धौ ं । अभ्युपगमार्थः कीदृश इति । प्रमाणेनैव स्वार्थस्य साधयितुमभिप्रेतत्वादिति । अन्यत्रैव तैः सूत्रार्थी नीत इति । आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्याभ्युपगमादित्यत्रार्थे तैः सूत्रार्थी योजितः । ॥ अवयवलक्षणे ॥ साध्यनिर्देशस्त्वनियमित इति । तमपहायापि भवेदित्यतिव्यापकं लक्षणमिति । एवं हि सति यः साध्यनिर्देशः सा प्रतिज्ञेति न स्यात्, अप्रतिज्ञारूपस्यापि साध्यनिर्देशस्य सम्भवात् । यथैष पन्थाः सुघ्नं गच्छतीति । नन्वत्रापि वाक्ये गच्छत्येवेति अवधारणमस्त्येव । नैतदेवम् । अवधारणं हि विशेषणेन समानविषयम् । न च 'एष पन्थाः स्रघ्नं गच्छति' इति अत्र विशेषणं सफलम् । तस्य हीष्टानिष्टसंदेहेऽनिष्टव्यवच्छेदः फलम् । यथा च विशेषणस्येष्टानिष्टप्रसक्तौ 'नीलमेवोत्पलं नानीलम्' इत्यनिष्टव्यवच्छेदः प्रयोजनं तथाs [45] वधारणस्य । न चोत्पलस्येव नीलानी - 1 १-२ न्यायभा० १. १. २६ ( उत्थानिका ) । ३ न्यायभा० १. १. २६ । ४ " अनर्थकानि - 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अधरोरुकमेतत् कुमार्याः स्कैयकृतस्य पिता प्रतिशीनः ॥” इति पातञ्जलमहाभाष्ये १. १. १, १. ४. ४५ । एतन्महाभाष्यपाठः हरिभद्रसूरिकृत - आवश्यक निर्युक्तौ ( पृ० ३७५) श्लोकरूपेण लब्धः । तद्यथा - 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । चर कीटके दिशमुदीचीं स्पर्शनकस्य पिता प्रतिशीनः ॥ ५ बौद्ध-वैशेषिकयोः सिद्धान्तः । ६ दिङ्नागस्य प्रत्यक्षलक्षणम् । प्रमाणसमु० १.३ । ७ बौद्धराद्धान्तः । ८ दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् । न्यायसू० ३. १. १ । ९ द्र० न्यायवा० १. १. ३३ । अत्रान्यव्यवच्छेदं वाक्यार्थ मन्वानो भदन्तः प्रतिज्ञालक्षणम तिव्याप्त्यव्याप्तिभ्यामाक्षिपति । न्या०वा०तात्प० १. १. ३३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy