SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २२७ का०पृ०१२५, वि०पृ०५६२] न्यायमञ्जरीग्रन्थिभङ्गः २२७ कारणाकारणविभागपूर्वकस्त्विति । हस्तस्य कारणमङ्गुलयः, आकाशं त्वकारणम्, तयोविभागः कारणाकारणविभाग इति'। विरुद्धदिग्वृत्तेः संयोगस्य निवर्तकमिति नातिप्रसङ्गः इति । यदि हि कर्म स्वाश्रयादन्यस्य संयोगं निवर्तयेत् तदा विभागजविभागानभ्युपगमः, न तु 'अङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवति' इति सूचितो योऽतिप्रसङ्गः स आपतेद् न त्वेमस्तीति भावः । [43] एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणमिति । कर्माविष्टस्य कर्म विनोत्तरसंयोगाभावात् संयोगोत्पत्तौ कर्मण एव कारणत्वमवगतम् । यच्च यस्योत्पत्तिकारणं तदेव तस्य विनाशहेतुरिति न वाच्यम् , विरुद्धदिग्संयोगोपमद विनोत्तरसंयोगस्यैव कर्तुमशक्यत्वादिति भावः ।। कर्मणां विचित्रकार्यहेतुत्वादिति । न ह्येकेन कर्मणा नोदानाख्यः संयोगविशेषो जनित इत्यन्येनापि जनयितव्यो नाभिघातादिरिति । कार्यकारणैकार्थसमवायेन तु प्रत्यासन्नमिति । कार्यस्य पटरूपस्य कारणं समवायिकारणम् , यः पटस्तेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे समवायस्तन्तुरूपस्य । ___ अत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनमिति । तथाहि-विप्रतिपत्तेः संशयः इत्युक्ते अग्रहणेऽपि तस्याः संशयप्रसक्तिस्तदर्थ विप्रतिपत्युपपत्तेरिति । तथापि विप्रतिपत्तिशब्दार्थमुपलभमानस्यावि(व)गतविशेषस्य न संशय इति तदर्थमुपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि द्रुततरं गच्छतो विप्रतिपत्तिशब्दार्थोपलम्भे उपलब्ध्यनुपलब्ध्योश्वाव्यवस्थाने न दृष्टः संशय इति । तदर्थे विशेषापेक्ष इति पदम् । ननूपलब्ध्यव्यवस्थातश्चेत् संशयस्तदानीं सर्वत्र संशयप्रसङ्ग इत्याशङ्ख्यातिप्रसङ्गं निराकर्तुमाह-- अव्यवस्थापदेनात्र पूर्वमिति । पूर्व सदाश्रिता विशेषा अर्थक्रियासमर्थत्वाच(द)योऽसदाश्रिताश्च तद्विपरीता उपलब्धाः पुनर्यदा- सदाश्रितान् अर्थक्रियासमर्थत्वादीन् विशेषान् नोपलभते तदैव संशयो न सर्वदेति तात्पर्यम् । एतदेव च न चैवं सति सर्वत्रानाश्वास इति इत्यादिनाऽऽह । अत्रापि पदत्रयेणेति । नोपलब्धिमात्रं संशयजनकमिति । तदर्थमुपलब्ध्युपपत्तेरिति । उपलब्ध्युपलम्भादित्युक्तेऽधिगतविशेषस्यापि संशयप्रसङ्ग इत्यतस्तव्यावृत्तये उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि कुतश्चिद् १ प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः-अन्यतरकर्मजः, उभयकर्मजः, विभागजश्च विभाग इति । तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् । विभागजस्तु द्विविधः-कारणविभागात्, कारणाकारणविभागाच्च । ......कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नमवयवान्तराद् विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविभागाः ... । प्रशस्तपादा० पृ० ४९५ । २ मुद्रितमजा तु 'त्रिरूप ' इति पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy