SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १८४ भट्टश्रीचक्रधरप्रणीतः [का पृ०७, वि०पृ०४३३ भाष्यकृत् स्वयं प्रादीदृशदिति । तथा च न्यायभाष्यम्-"येयं स्मृतिर-- गृह्यमाणेऽर्थेऽज्ञासिषम[हम]मुमर्थमिति, अस्या ज्ञातृज्ञानविशिष्टः पूर्वज्ञातोऽर्थों विषयो नार्थमात्रम् , अज्ञासिषममुमर्थम् , ज्ञातवानहममुमर्थम्, असावर्थो मया ज्ञातः, अमुष्मिन्नर्थे मे ज्ञानमभूदिति चतुर्विधमप्येतद् वाक्यं स्मृतिविषयप्रज्ञापकं समानार्थम् । सर्वत्र खल्वत्र ज्ञाता ज्ञानं ज्ञेयं च गृह्यते।” इत्यादि [न्यायभा० ३. १. १५] । अत्र ज्ञातृविशिष्टार्थस्मरणं समर्थितम् । तथाभूतस्यैवानुभवो वाच्यः, न, अगृहीतविशेषणन्यायेन [3] तज्ज्ञेयग्रहणसमये ज्ञातुरप्यवगमोऽभ्युपेयः । न च यदा ज्ञेयग्रहणं तदाऽनुमानतो ज्ञाततादिलिङ्गाद् आत्मनो गृहीतिगृहीतस्य च स्मरणमिति । यदाहक्रेमस्यानवधारणाद्-ग्रहणसमय इत्यर्थः । एकाश्रयतया ज्ञातमिति । यस्यैव प्रागनुभवस्तस्यैव दर्शनक्रमेणेच्छोपजायमाना पूर्वापरयोरनुसन्धतारमेकं गमयतीत्येकाश्रयत्वं प्रागवश्यमभ्युपेयम् । अनुभवेनैकाश्रया इच्छा अनुसन्धातृपूर्विका, एकाश्रयत्वे सतीच्छारूपत्वात्; यत्र पुनरेकानुसन्धातृपूर्वकत्वं नास्ति तत्रैकाश्रयत्वे सतीच्छारूपत्वमपि नास्ति, यज्ञदत्तो(त्ता)नुभूत इव देवदत्तेच्छायाः । तथात्वेन एकाश्रयतया । अज्ञाते तु न लिङ्ता । न हि यथा तल्लिङ्गं तथा अज्ञातलिङ्गं भवति । गुणत्वं चेच्छादीनामिति । इच्छाधर्मो गुण इति साध्यम् , कार्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात् , रसवदिति । तत्कायेसमानकर्तृत्वेति । सुखसाधनत्वज्ञानादिकार्येणैककर्तृकत्वावगमात् शरीरादिप्रतिषेधे सतीति । तेषां नानात्वात् पूर्वोपलम्भाघेककर्तृकत्वविशिष्टकार्याश्रयत्वाभावात् । शरीरादिषु बाधकोपपत्ताविति । पूर्वानुभवादिसव्यपेक्षकार्यत्वमेवेच्छायाः शरीराद्याश्रयत्वे बाधकम्, सविशेषणकार्यत्वायोगादिति । शरीरादिष्वित्यत्र आदिपदेन यान्युपात्तानि भूतानि तत्कार्यत्वे बाधकाभावात् 'शरीरादिषु बाधकोपपत्तौ कार्यत्वात्' इति सविशेषणस्य कार्यत्वाभावात् । सविशेषणानां कार्यत्वाभावाद् विलक्षणाश्रयाश्रितत्वम् नास्तीत्यादिना एतदेव व्यक्तीकृतम् । १ मुद्रितमञ्जयां तु ‘स्मरणानवधारणात्' इति पाठः । २ यजातीयस्यार्थस्य सन्निकर्षात् सुखमात्मोपलब्धवान् तज्जातीयमेवार्थ पश्यन्नुपादातुमिच्छति, सेयमादातुमिच्छा एकस्यानेकार्थदर्शिनो दर्शनप्रतिसन्धानादू भवति लिजमात्मनः । न्यायभा० १.१.१० । तत्रेच्छादीनां प्रतिसन्धानमात्मास्तित्वप्रतिपादकम् । न्यायवा० १.१. १०। ३ यश्चासावेकोऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा, न च शरीरमेवं भवितुमर्हति, तस्य बाल्यकौमारयौवनवार्द्धकमे देनान्यत्वात् । न्यायवा०तात्प० १. १. १०।४ द्र० न्यायसू० ३.१.७-१५ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy