SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ का०पृ०७, वि०पृ०४३३ ] न्यायमञ्जरोग्रन्थिमङ्गः अथवेच्छा(अवस्था)भेदादिना सुखाकारत्वाद्यवस्थाभेदमासू(श्रि)त्य ममात्मेति व्यतिरेकः । शरीरालम्बनत्वेऽपि सैव सरणिः । ममेदं शरीरमित्यत्र ममेत्यनेन यौवनावस्था परामृश्येदमित्यनेन वृद्धावस्थां निर्दिशति । चिदयोगाद् हि चेतनत्व इति । उत्पद्यमानया चिता ज्ञानेन यस्य सम्बन्धः स चेतन इति' हि यधुच्येत ततः घटस्यापि तयोत्पद्यमानया कारणत्वाविशेषात् सम्बन्धः केन वार्येतेति । अथात्मसम्बद्धैव सा उत्पद्यते न घटादिकारकान्तरसम्बद्धेति । तत्राप्याह-न चास्ति नियमहेतुरिति । न ग्राह्यतयेति । एकस्यां संविद्यनुभवारूढस्य त्रयस्य स्वेन स्वेन रूपेणावभासनात् प्रमातुः प्रमेयस्य प्रमितेश्च । प्रमातात्मा प्रमातृतयैव भासते, अन्यथा भासनेऽस्य प्रमेयादविशेषः स्यात्; एवं प्रमितिरपि स्वरूपेणैव भासते, न प्रमातृ-प्रमेयरूप[2]तया; प्रमेयं तु प्रमेयरूपतयैव । अत एव त्रितयप्रतिभासोऽभ्युपगतो भवति, अन्यथा सर्व प्रमेयमेव स्यात् । किन्त्वपरोक्ष इति । प्रत्यक्षं हि तदुच्यते यत्राक्षव्यापाराद् ज्ञानमुत्पद्यते । तदन्यत् परोक्षम् । [प्रकाशत्वाद् अपरोक्षमिति । यत् पुनः प्रकाशतेऽथवाऽक्षव्यापारं नापेक्षते तदपरोक्षमिति । इह चात्मा प्रतीतिकर्तृतया प्रकाशते घटस्तु प्रतीतिकर्मतयेति । न च घटादिभिरतिप्रसङ्ग इति । यदि [सं]वित्तिजनकत्वाद् वैषम्यं तर्हि घटादीनामपि प्राप्तं तदिति । द्रव्यत्वाविशेषेऽपीति । यथा द्रव्यत्वे सति पृथिव्या सम्बध्यते गन्धो नैवं तेजसेत्यर्थः । १ आत्मत्वसामान्यवान् बुद्धिगुणाश्रय आत्मा । सप्तपदार्थी, सूत्र १३६ । नवाना. मात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । व्योम० पृ० ६३८ । जीवानामविद्यादिसमस्तोपाधिनाशे चिदानन्दब्रह्मस्वरूपत्वापत्तिमुक्तिरित्यन्ये । न । जीवानां दुःखादिवत् ज्ञानात् सुखाच्च भेदेन प्रतीयमानत्वात् ।...वस्तूनां पर प्रकाश्यत्वनियमेन ज्ञातुः स्वप्रकाशनविरोधात् । अन्यथा दःखादेरपिस्वप्रकाशतापत्तिः । चिद्रपोऽहमिति अनुभवोऽस्ति इति चेत् । न । ज्ञानाधारस्य चिच्छब्देनाभिधानात् ।न्यायलीला० पृ०५८३ । भासर्वज्ञ-भूषणकार-चन्द्रिकाकाराणां मते मोक्षावस्थायां सुखज्ञानयोरस्तित्वमस्ति । द्र० न्यायसार (भूषणसहित) पृ० ५९७,न्यायचं० पृ०५४५-४६ २ सर्वविज्ञानहेतूत्था मितौ मातरि च प्रमा। साक्षात्कर्तृत्वसामान्यात् प्रत्यक्षत्वेन सम्मता ।।१३॥ प्रकरणपं० पृ० १६७ । इदमहं गृह्णामीति वा, इदमहं स्मरामीति वा त्रितयमेवावभासते । प्रकरणपं० पृ० १७१। सर्वेषु ज्ञानेषु त्रिपुटीं स्वीकुर्वाणाः प्राभाकराः 'घटमहं जानामि' 'घटमहं स्मारमि' इत्यनुव्यवसायात्मकमेव ज्ञानमभ्युगपच्छन्ति, 'न त्वयं घटः' इति । ज्ञानं ज्ञाता झेयम्, मितिर्माता मेयमिति चैतत् त्रितयं त्रिपुटीत्यभिधीयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy