SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६२ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०३४३, वि० पृ०३७३ स्थस्य शब्दस्यार्थाविनिर्भागज्ञापनाय । पूर्विखर इति । पूःशब्देन विखरशब्देन च देहेन्द्रियसङ्घात उच्यत इति । प्रसिद्धेन पूःशब्देन साम्यं दर्शयति-— स्थानेषु विधृत इति' । स्थानेषु ताल्वादिषु विधृते प्रतिहते वायौ सति तस्मान्निमित्तात् कृत आत्मलाभाय वर्णानामक्षराणां परिग्रह उपादानं यया । यतः प्राणाख्यस्य वायोर्वृत्तिर्व्यापारो निबन्धनं कारणमस्याः । [159A] प्रयोक्तृणामुच्चारयितॄणां सम्बन्धिनी' । [ या पुनरिति ] या पुनः बुद्ध्या (यु) पादाना बुद्धावेव प्रतिभासते न वैखरीवद् बहिः श्रोत्रेणापि सा मध्यमा । क्रमरूपानुपातिनी । वैखर्यास्तत्कार्यत्वात् तदवस्थाभाविनः क्रमस्यानुकारानुवर्तिनी । यादृशी मूर्तिरालेखयितव्या तथाविधै [द्धि]स्था निरूप्यते, एवं च स्थूलोऽपि शब्दः प्रथमं बुद्धौ निवेश्यः सक्रमश्वासौ, बुद्धिनिविष्टत्वमेव मध्यमत्वम् । एवं च वैखरीधर्मस्य क्रमस्यात्मसन्निवेशलक्षणस्य च पश्यन्तीधर्मस्यानुगमादुभयोर्वाग्धर्मयोर्मध्ये भावान्मध्यमात्वम् | [ प्राणवृत्तिमिति ] प्राणस्य प्राणाख्यस्य वायोर्व्यापारं हि स्वरूपनिष्पत्तयेऽतिक्रम्यावधीर्य प्रवर्तते सा । अविभागा तु पश्यन्ती । अविभागा अविद्यमानभेदा, विवक्षाया अभावात् । सर्वतः स्वात्मनो विषयाच्च संहृतस्तिरोधापितः क्रमो यया, तदवस्थयोर्वाच्यवाचकयोरुभयोरपि क्रमस्याप्रतिभासनात् । स्वात्मैव ज्योतिः प्रकाशोऽस्या न पुनर्वैखरीवत् परसंवेद्यापि । सूक्ष्मा' ज्ञेयेनार्थेनासंभिन्नाकारा ज्ञानप्रतिलीनाकारा वा । अत एवोभूतेन ज्ञानात्मना रूपेण पश्यति शब्द तत्त्वं न विवक्षयोपादत्त इति व्यापारायया सञ्ज्ञया ज्ञानानुस्यूता शब्दावस्था मध्यमावस्थायाः कारणमुक्ता । अनपायिनी' च सा विषयापगमेऽपि चिदवस्थाया अविचलनादिति । १-२ वाक्यप स्वो० वृत्तौ उद्धृता (१.१४३ ) । अस्यार्थः । स्थानेषु इति ताल्वादिस्थानेषु । वायौ प्राणसंज्ञे । विधृते अभिघातार्थं निरुद्धे सति । कृतवर्णपरिग्रहा इति हेतुद्वारेण विशेषणं ततः ककारादिवर्णरूपस्वीकारात् वैखरी संज्ञा "वक्तृभिर्विशिष्टायां खरावस्थायां स्पष्टरूपायां भवा वैखरीति निरुक्तेः । वाक् प्रयोतॄणां सम्बन्धिनी । यद्वा तेषां स्थानेषु तस्याश्च प्राणवृत्तिरेव निबन्धनं तत्रैव निबद्धा सा तन्मयत्वादिति । स्याद्वादरत्ना० पृ०८९ । द्र० स्प० का०विवृति ( रामकण्ठ) ४.१८ । ३-४ वाक्यप० स्वो० वृत्तौ उद्धृता (१.१४३) । अस्यार्थः । स्थूलां प्राणवृत्तिहेतुत्वेन वैखरीवत् अनपेक्ष्य केवलं बुद्धिरेव उपादानं हेतुर्यस्याः सा 'प्राणस्थत्वात् क्रमरूपमनुपतति । अस्याश्च मनोभूमाववस्थानं वैखरीपश्यन्त्योर्मध्ये भावात् मध्यमा वागिति । स्थाद्वादरत्ना० पृ०८९ । द्र० स्प०का०विवृति ( रामकण्ठ ) ४. १८ । ५-९ वाक्यप ० स्वो० वृत्तौ उद्धता (१.१४३) । अस्यार्थः । पश्यन्ती यस्यां वाच्यवाचकयोर्विभागेन अवभासो नास्ति सर्वतश्च सजातीयविजातीयापेक्षया संहृतो वाच्यानां वाचकानां च क्रमो देशकालकृतो यत्र क्रमविवर्तशक्तिस्तु विद्यते । स्वरूपज्योतिः स्वप्रकाशा वेद्यते वेदकमेदातिक्रमात् । सूक्ष्मा दुर्लक्ष्या । अनपायिनी कालमेंदास्पर्शादिति । स्याद्वादरत्ना० पृ० ९० । द्र० स्प०का०विवृति ( रामकण्ठ ) ४.१८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy