SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ का०पृ०२८१, वि०पृ०३०७] न्यायमञ्जरीग्रन्थिभङ्गः ननु बाह्यार्थव्यतिरेकेणेति । विकल्पो हि ज्ञानविशेषस्तस्य योऽयं ग्राह्यानुरा[126B]गः स कथं बाह्य विना सम्भवति । स्वत एव तथात्वे निर्विकल्पेऽपि तथाभाव(वा)द् बाह्यार्थाभावप्रसङ्गात् । दृश्यच्छायैवानुरनिकेति । स्वलक्षणग्राहिदर्शनसमनन्तरभावेन विकल्पानां लाक्षानन्तरस्फटिकशकलसमनन्तरवर्तिन इव स्फटिकशकलान्तरस्य लाक्षाच्छायाधारित्वं दृश्यच्छायाधारिता'। तच्च स्पष्ट(ष्टु)मक्षमा। अस्पष्टत्वात् प्रतीतेः प्रमाणान्तरवैयर्थ्यप्रसङ्गाच्चेति । व्यावृत्तस्याग्रहणादिति । यदि हि व्यावृत्तिमपि न विषयीकुर्युः कथं प्रकारान्तरस्याभावात् तच्छायावलम्बिनः स्युः ? । तच्छायानवलम्बित्वे च सादृश्याभावात् तदध्यवसायेन बाह्ये प्रवृत्तिर्न स्यात् । अपि तु कश्चिदारोपित आकार इति । यदेव च तस्यारोपितस्याकारस्य ग्रहणम् स एव तेन रूपेण बाह्याध्यवसाय इत्यतो बाह्यव्यावृत्तिविषयत्वाभिमानः । न प्रतिपत्तितः । प्रतिपत्तिहिं विधिमुखेन । फलत उपचर्यते । प्रागुक्तयुक्त्या दर्शनपृष्ठभाविनां विकल्पानां विजातीयपरावृत्तावेवावस्थानात् । विकल्पान्तरसन्निधापितेति । अस्तीति नास्तीति च विकल्पाभ्यां सन्निधापितौ यौ भावाभावौ[127A] । अन्यथा नियतपरिच्छेदाभावादिति । वस्त्वन्तरव्यवच्छेदनमन्तरेणेति शेषः । गौ रेवायमिति या नियतरूपतया गृहीतिः सा अन्यव्यवच्छेदमन्तरेण नेति यद् उक्तं तन्न, प्रथमं तावद् विकल्पनियतस्य रूपस्य ग्रहणं ततोsन्यव्यावृत्तिनिश्चय इति चेन्नेत्याह-संदिग्धं च वस्तु न गृह्यत इति । यावद् १ मनसो युगपद् वृत्तः सविकल्पाविकल्पयोः। विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति ॥ प्र०बा० २.१३३॥ सर्व एव हि विकल्पोऽस्पष्टस्वलक्षणाभः । नीलादि पश्यतस्तु विकल्पयतो यः स्पष्टार्थप्रतिभासाभिमानः स तद्विकल्पसमसमयजन्मनो निर्विकल्पस्य प्रसादात् । हेतुबिष्टी०आ० पृ० २८७ । २ विकल्पविज्ञानं हि सङ्केतकालदृष्टत्वेन वस्तु गृलच्छब्दसंसर्गयोग्यं गृह्णीयात्। सङ्केतकालदृष्टावं च सङ्केतकालोत्पन्नज्ञानविषयत्वम् । यथा च पूर्वोत्पन्नं विनष्टं ज्ञानं संप्रत्यसत्, तद्वत् पूर्वविनष्टज्ञानविषयत्वमपि संप्रति नास्ति वस्तुनः । तदसद्रपं वस्तुनो गृह्णद् असंनिहितार्थग्राहित्वाद् अस्फुटाभम् विकल्पकम् । न्यायबिष्टी० प्र०६९ । ३ कमिदानीमन्यापोहः सामान्यम् ? स एव खल्वन्यापोहः । तमेव गृह्णती सा प्रकृतिविभ्रमात् विकल्पानां वस्तुग्राहिणीव च प्रतिभाति । सा हि तदन्यविवे. किष्वेव भावेषु भवन्ती विवेकविषयेति गम्यते । प्र०वा स्वो०वृ०पृ०२५ । भयमों - विजातीयव्यावृत्तरन्यस्य सामान्यस्याभावात् विजातीयव्यावृत्त्यवगम एव सामान्यावगमः । वास. नाद्वय निबद्धश्च विकल्पः स्वप्रतिभासमेव नियतं बहीरूपतया साधारणतया प्रतिपद्यमानो बाह्य एव विजातीयव्यावृत्त्या मया प्रतीयत इति मन्यत इति । प्रकृत्या भ्रान्तत्वात् सामान्यस्य । स विवेचितमेदोऽभेद एव विकल्पेन प्रतीयत इत्युक्तम् । हेतुवि०टी०आ० पृ० २७० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy