SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३२ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२७७, वि० पृ०३०३ व्याख्याने तद्विशेषणोपकार्य वस्तुरवरूपग्रहण वेलायामेवेत्यत्र तानि विशेषणान्युपकार्याणि यस्य वस्तुनस्तद्विशेषणोपकार्यमिति विग्रहः कर्तव्यः । महती (a) [कृपा ]णवृष्टिमिति । तथाहि भट्ट आहअगोनिवृत्तिः सामान्यं वाच्यं यैः परिकल्पितम् । गोत्वं वस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम् ॥ भावान्तरमभावो हि पुरस्तात् प्रतिपादितः । तत्राऽश्वादिनिवृत्यात्मा भावः क इति कथ्यताम् ॥ इत्यादि [ श्लो० वा० अपोहवा ० १ २] न च वर्गीकरणे निमित्तमिति । एकदेशकालादि । अपोहानां भेदाभावात् । अभावरूपत्वादिति भावः । अपोहभेदादिति । केषाञ्चिद् अगोऽपोहोऽर्थः केषाञ्चिद् अनश्वापोह इति । विप्रतिषिद्धधर्मेति । विप्रतिषिद्धधर्माणां विरुद्धधर्माणां एक [126A]त्र समवायप्राप्तौ सत्याम् | बहूनां सधर्मत्वं । बहूनां ये धर्मास्ते ग्राह्या इत्यर्थः । तस्माद्विलक्षणस्तुरा (२) गादेरपोहरूपाद विलक्षणः । न च वृत्तिरपि काचिदस्त्यभावरूपत्वात् । कल्पनयैव कल्पितेनैव रूपेण । उपसर्गनिपातानामिति । प्रादि-चादीनामपोह्यस्यादर्शनादस्वतन्त्रप्रयोगत्वात् तेषाम् । तथा चाह भट्टः "चादीनामपि नञ्योगो नैवास्तीत्यनपोहनम्" इति । [ श्लो०त्रा० अपोहवा ० १४३] आख्यातशब्दानां चेति । पचत्यादौ हि नञ्योगे पाकाभावप्रतीतिर्नपाठादेवेति । तथा चाह-आख्यातेषु च नान्यस्य निवृत्तिः संप्रतीयते । Jain Education International न पर्युदासरूपं हि निषेध्यं तत्र विद्यते ॥ न तिच्यमानेऽपि निषेधस्य निषेधनम् । पचतीत्यनिषिद्धं तु स्वरूपेणावतिष्ठते ॥ इति ॥ [ श्लो० वा० अपोहवा ० ज्ञानार्थाभ्यामन्य एवेति धर्मोत्तरः, तथा चाहासौ बुद्धया कल्पिकया विविक्तम परैर्यद्रूपमुल्लिख्यते बुद्धिन न बहिर्यदेव च वदन्निस्तत्त्वमारोपितम् । यस्तत्त्वं जगतो जगाद विजयी निःशेषदोषद्विषां वक्तारं तमिह प्रणम्य शिरसाऽपोहः स्म विस्तार्यते ॥ इति ॥ For Private & Personal Use Only १३९-४०] [ अपोहप्रकरण ? ] www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy