SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ का०पृ०२४१ वि० पृ० २६४ ] " न्यायमञ्जरी ग्रन्थिभङ्गः १०९ तद्भावस्तत्त्वम् । यदेतद् दृष्टं वेदविदनुष्ठानं तदानुगुण्यं चोदनामूलत्वे सति साध्यं भवति सिद्धयतीत्यर्थः । परिदृश्यमानमन्त्रार्थेति । "यां जना अभिनन्दन्ति" इति [ अथर्ववेद ३.११] मन्त्रार्थवादात् " अष्टकाः कर्तव्याः" इति स्मृतेः; "धन्वन्निव प्रपा असि त्वमग्ने" इत्यतः "प्रपाः प्रवर्तयितव्याः" इत्यस्याः स्मृतेरुत्थानम् । विप्रकीर्णशाखामूलत्वमिति' । विप्रकीर्णा याः काश्चित् क्वचिदेव देशे पठ्यन्ते न सर्वाः सर्वत्र अतस्तदर्थस्यैकत्र ढौकयितुमशक्यत्वात् स्मृत्युप निबन्धस्तदर्थ संकलनानिमित्तकः । उत्सन्नशाखेति । याः शाखा अन्यैः कैश्चिन्न पठ्यन्ते ता एव तु स्मृतिकाराः पठन्ति, सैरन्याख्यात्रभावेनोत्सादमाशङ्कमानैस्तदर्थं ग्रन्थोपनिबन्धः [97A] कृतः । आचमनादि[स्मार्त] पदार्थेति । 'आचान्तेन कर्तव्यम्' 'शुचिना कर्तव्यम्' इति स्मार्त्तपदार्थमिश्राणां वेदिस्तरणादीनां दर्शनात् । उपदेशेन मन्त्रान् संप्रादुः उपदेशेन शिष्योपाध्यायिकया अपरेभ्यः अवरकालीनेभ्यः शक्तिहीनेभ्यः मन्त्रान् ग्रन्थतोऽर्थतश्च संप्रादुः संप्रत्तवन्तः । अर्थतश्च मन्त्राणां ज्ञानाद् धर्मोऽपि ज्ञातो भवति, कर्मणां विशिष्ट फलप्रदत्वस्य मन्त्रैः प्रकाशनादिति । बृहद्रथन्तरविध्योरिव 'वृहत्पृष्ठं भवति' ' रथन्तरं पृष्ठं भवति' इत्यनयोः । वेदमूलत्ववादिभिरपि कैश्चिद्विकल्पो व्याख्यात एवेति । अयं तेषामाशयः - किल भवद्भिः प्रत्यक्षया श्रुत्याऽऽनुमानिकी श्रुतिर्वाध्यत इत्यभिधीयते । तत्र ब्रूमः - सा श्रुतिर्मन्वादीनां प्रत्यक्षा अप्रत्यक्षा वा ? न तावदप्रत्यक्षा, मन्वादीनामाप्तत्वहानेः एवं चातिविरोधेऽप्यप्रामाण्यप्रसक्तिः । अथ प्रत्यक्षा, तदानीमिदानीन्तनप्रत्यक्षत्वं कोपयुज्यते तेषां प्रत्यक्षत्वेन तस्याः प्रामाण्यसिद्धेः प्रामाण्यं चेद् बृहद्रथन्तर श्रुत्योरिव विरोधे विकल्पः केन वार्यत इत्यादि । विषयविभागेन वा विकल्पो व्याख्या[97B] स्यत इति यथा प्राजापत्यां तु कृत्वेण्ट सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन् समारोप्य ब्रा[ह्मणः प्रव्रजेद् गृहात् ] ॥ इति सप्तमाधे प्राभाकरटीका तात्पर्यम् । ननु यथाकार्यमुपदेश इति अयमापतत्सत्रमित्यनेन सह विरोधे विषयविभागो दर्शितः । यः परिपक्वकषायः विगता.... रूपाच्चोदकात् प्राप्तिः सा हि चोदयत्याक्षिपति पदार्थानुपकारसिद्धयघितार्थि त्वः तं प्रति जागमयं वाद इति । न च श्रुतिस्मृतिविरोधोदाहरणमिति । 'प्राजापत्यं शतकृष्णलं चरुं निर्वपेदायुष्कामः ' इत्यादौ कार्यस्य कृष्णलता १ शाखानां विप्रकीर्णत्वात् तन्त्रवा० १. ३. १. २ । २ शाबरभा० १.३.२.३ । ३ * एतचिह्मान्तर्गत सर्वमस्पष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy