SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १०८ मिति । भट्टश्रीचक्रधरप्रणीतः [ का०पृ०२३८, वि०पृ०, २६० अग्याः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मवित्तमः । वेदार्थविज्ज्येष्ठसामा मधुत्रिसुपर्णकः ॥ इति ॥ [ याज्ञवल्क्यस्मृति १.२१९] ज्येष्ठसाम-त्रिमधु-त्रिसुपर्णानि व्रतानि तदनुष्ठा । यनस्तच्छब्दैरुकाः । तदनुकल्प एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्व[यं] यज्ञे सदा सद्भिरनुष्ठितः ॥ [मनुस्मृति ३.१४७] इत्यभिधाय ज्येष्ठसामगादयोऽनुकल्परूपतया दर्शिताः । वैहारिकीति । विहार आहवनीयादिरग्निस्त्रेता तत्र भवा वैहारिकी दर्शपूर्णमासादिका । पाकयज्ञ अष्टकादयो गृह्याग्निनिर्वर्त्यः | वृत्ती प्रकारौ । इत्यभूमिज्ञोक्तिरेषा । उभयासामपि तत्रैवोपदेशद· र्शनादिति । तुल्यप्रभावद्धति । तुल्यप्रभावर्द्धि माहात्म्यसम्पत्त्या प्रत्यहं वर्धमानः अधिकीभवन् उचितो योग्यः स्तवो येषां भुजानां वेदानां च । जपक्षे भगवद्भुजानां [96 A ] कर्मणि सव्येतराणां विशेषाभावात् तुल्यप्रभावर्द्धित्वम् । भुजपक्षे विबुधा देवा वेद क्षे विद्वांसस्तेषामुपायप्रदर्शनद्वारेण फलसम्पादकत्वम् । चतुःस्कन्धोपेत इति । वेदपक्षेऽवयवैविध्यर्थवादमन्त्रनामधेयादिवाच्यैः पृथगर्थैः प्रवर्तनास्तुतिप्रयोगप्रदर्शनादिप्रतिपादकैरत एव परस्परसंबद्धैः । वृक्षपक्षेऽवयवैर्मूल-स्वक्-पत्रादिभिः, तेsपि पृथगर्थाः पृथक्प्रयोजनाः । तथाहि - कस्यचिद् वृक्षस्य मूलादयो भिन्नकार्यकर्तृत्वेनोपलभ्यन्ते ते च परस्परसम्बद्धा एव भवन्ति । शाखापक्षे कुसुमफले, वाक्यवाक्यार्थी वेदपक्षे । [ वेदपक्षे] द्विजैर्ब्राह्मणैः पीत आस्वादित उत्तमो रस उपनिषदर्थो यासाम्, वृक्षपक्षे द्विजैः पक्षिभिः । परेष्वेवं ब्रुवाणेषु । यथा भवद्भिर्वेदानां प्रामाण्यं साध्यत ईश्वरप्रणीतत्वेन तन्त्राऽऽगमान्तराणामपि तथैव प्रतिपादयत्सु । Jain Education International तदर्थानुप्रविष्टेति । वेदार्थेऽनुष्ठेयेऽनुप्रविष्टानि 'आचान्तेन' कर्तव्यम् 'शुचिना कर्तव्यम्' इत्यादीनि यानि शौचाचमनादीनि कर्माणि । अन्धपरम्परास्मरणतुल्यत्वमिति यथाऽन्धः [ 96B ] रूपविशेषोपलम्भं प्रति पृष्टोऽन्धान्तरोक्तं स्मृत्वा कथयति 'तेन ममैवमाख्यातम्' इति । 2 भ्रान्तेरनुभवाद्वेति । एभ्यः सकाशान्मूलत्वेनाश्रीयमाणा चोदनैव लघीयसी कल्पनारहिता । दृष्टानुगुण्यसामर्थ्यादित्यत्र दृष्टानुगुण्यसाध्यत्वादिति पाठान्तरमन्ये वदन्ति, व्याचक्षते च दृष्टानुगुण्यं साध्यं यस्याः सा दृष्टानुगुण्यसाध्या २. तन्त्रवा० १. ३. १.२ । १ शाबरभा० १.३. १. १. 1 For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy