________________
भट्टश्री बक्रधरप्रणीतः
[ का०पृ०१७९, वि० पृ० १९५ भेमि इति' । सन्निवेशशब्दसाम्याद् घटादिसन्निवेशात् कर्तुरनुमितिरयुक्ता, यथा धूपोऽपि पाण्डुर्भवतीति तच्छन्दसाम्यादन्येनापि पाण्डुद्रव्येण नाग्नेरनुमानम् । व्यभिचाराणामपीति । तथाहि प्रमेयत्वादयोऽप्यनित्यत्वसिद्धये उपादीयमाना येन येन नित्येन व्यभिचारदर्शनादनैकान्तिकतां प्राप्यन्ते तस्य तस्य पक्षीकरणात् सम्यग्धेतुतां व्रजेयुः ।
अदृश्यस्य च कर्तुरनुपलब्धितो नास्तित्वनिश्वयानुपपत्तेरिति । पिशाचादिवदिति भावः ।
तत्समर्थनम् परलोकसमर्थनम्, तस्मिन् समर्थित एव ते निराकृता भवन्ति । तावतैव नास्तिकताऽभ्युपगमस्तेषामपाकृतो भवति, परलोकानभ्युपगम एव हि नास्तिकत्वं यतः ।
वस्तुनो द्वैरूप्यानुपपत्तेरिति । यथा यस्य नित्यत्वं स नित्यो यस्य तु तदभावः सोऽनित्यो न पुनर्नित्यानित्योऽन्यः क्वचिदस्ति, एवं यस्य साध्यसम्बन्धः स सपक्षो यस्य तु तदभावः स विपक्षो न पुनस्तृतीयः कश्चिदपि राशिविंद्यत इति भावः ।
अथास्य लिङ्गाभासत्वमिति पूर्वार्धेन परमतमाशङ्क्योत्तरार्धं ‘ननु तं दे [70B]शमासाद्य' इति समर्थयति ।
यदपि विशेषविरुद्धत्वमिति । असर्वज्ञकर्तृपूर्वकाः क्षित्यादयः कार्यत्वाद् घटादिवद् इति ।
विश्वतश्चक्षुरिति । विश्वस्मिन् विश्वतः । विश्वस्मिन् यानि चक्षूंषि तानि चक्षूंषि यस्य स विश्वतश्चक्षुः । एवं विश्वसम्बन्धीनि मुखान्येव मुखं यस्य, विश्वसम्बन्धिनो बाहव एव बाहू यस्य तत्यादा एव पादौ यस्येति विप्रहीतव्यम् । स द्यावापृथिवी जनयन् बाहुभ्यां बाहुसाध्येन व्यापारेण द्विपदं मनुष्यादीन् संघमति संयुनक्ति, अनेकार्थत्वाद् धातूनां संपूर्वी धमतिः संयोजनार्थः । पतत्रिणः पक्षिणस्तु पक्षैः पक्षव्यापारेण संघमति संयुनक्ति । तदधीना द्विपदां चतुष्पदां स्वस्वव्या[पा] रे
1
१ प्र० वा० १. १४ । वस्तुभेदे घटे प्रसिद्धस्य पुरुषपूर्वकत्वस्य सन्निवेश इति शब्दसाम्याद् अमेदिनः सन्निवेशमात्रात् पर्वतादौ न युक्ता अनुमितिः पाण्डुद्रव्यादिवद् हुताशने । यथा पाण्डुविशेषस्य धूमस्य कारणत्वेन दृष्टे वह्नौ पाण्डुशब्द साम्याद् अभेदिनो यतः कुतश्चित् पाण्डुद्रव्याद् धूमादेरनुमानमनुचितमतो यत्तद् बुद्धिमव्याप्तं सन्निवेशादि तद्धर्मिणि नास्तीस्यसिद्धिर्हेतूनाम् । मनो० १. १४ । २ न ईश्वरानभ्युपगमः नापि वेदानभ्युपगमः नास्तिकत्वं भारतीय दर्शनपरम्परायाम् । द्र० पाणिनि ४ ४ ६० सूत्रस्य नारायणोपनिषद् ३.२ ।
1
भाष्यम् । ३ तै० आ०१० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org