________________
भट्टश्रीचक्रधरप्रणीतः [का०पू०१७४, वि००१८९ अन्वेषणीयं तहिं प्रामाण्यकारणम् महाजनपरिग्रहादि ।
क्लेशकर्मविपाकादि इति । क्लेशा रागादयः 68B] | कर्माणि शुभाशुभानि । विपाको जात्यायु गाः । आदिग्रहणाद् आशयः संस्कारो धर्माधर्माख्यः । तदुक्तम्'क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः' इति (पातञ्जलयोगसूत्रः १. २४]
कर्तुर्दृश्यत्वमिति अशरीरस्य कर्तृत्वानुपपत्तेः सशरीरत्वे चेतरकर्तृवद् दृश्यत्वम्, दृश्यस्य चानुपलब्धिरभावं साधयत्येवें ।
युज्यतेऽतिप्रसङ्गत इति । अकिश्चित्करस्य सत्त्वमात्रेण कारणत्वकल्पनायां चैत्रस्य व्रणरोपणे स्थाणोरपि कारणत्वं प्रसज्यते । तदुक्तम्
शस्त्रौषधादिसम्बन्धाच्चैत्रस्य व्रणरोपणे । असम्बद्धस्य किं स्थाणोः कारणत्वं न कल्प्यते ।। इति ॥ [प्रमाणवा०१.२४] ब्राह्मण मानेनेति । दैविकानां युगानां तु सहस्र परिसङ्ख्यया । ब्राह्ममेकमहज्ञेयं तावती रात्रिरेव च ॥ इत्यादिना [मनुस्मृति १. ७२] ॥
तत्परत्वमसाम्प्रतम् । तत्परत्वे हि नित्यत्वव्याघातः, तेनैव कर्तुः प्रतिपादनात् ।
तदुत्पत्तिप्रकारेति । तस्योत्पत्तौ यः प्रकार इतिकर्तव्यता, उत्पन्नस्य च प्रयोजनम् ।
येषामप्यनवगतोत्पत्तीनामिति । शब्दाधिकरणे[69AJ भाष्यं शब्दस्य कारणाभावाद्धेतोः कारणविनाशात् कारणसंयोगविनाशाद्वा विनाशाशङ्काप्रतिषेधपरम्-'येषामनवगतोत्पत्तीनां द्रव्याणां भाव एव लक्ष्यते, तेषामपि केषाञ्चिः दनित्यता गम्यते, येषां विनाशकारणमुपलक्ष्यते, यथाऽभिनवं पटं दृष्ट्वा, न चैनं क्रियमाणमुपलब्धवान्, अथवाऽनित्यत्वमस्याध्यवस्यति रूपमेव हि दृष्ट्वा । तन्तुव्यतिषङ्गजनितोऽयं तद्वयतिषङ्गविमोचनात् तन्तुविनाशाद्वा विनयति
१ अविद्याऽस्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः । यो० सू० २.३ । २ कुशलाकुशलानि कर्माणि । व्या०भा० १.२४ । कुशलाकुशलानि धर्माधर्माः तेषां च कर्मजत्वाद् उपचारात् कर्मत्वम् । तत्ववै० १. २४ । ३ सति मूले तद्विपाको जात्यायु गाः । यो. सू०२.१३। ४ क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः । यो. सू. २. १२। चित्तभूमौ शेरत इत्याशया वासनाः, ताश्च विपाकानुगुणाः तत्कारणानि, यतस्तत्तच्छरीरसाध्यभोगवासनामदोध्यैव कर्मणा विपाको दीयत इति । योगवा० १, २४ । ५ स चायं जगन्ति सृजन सशरीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिवद् दृश्यशरीरविशिष्ट उत पिशाचादिवददृश्यशरीरविशिष्टः । स्याद्वादन ०. पृ. २४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org