________________
श्रीवीतरागस्तवे चतुर्थः प्रकाशः
याः, उद्दीपनविभावत्वात्तेषामिति भावः, ततो हेतो यद्भयम् , तदाप्येव, कामवदस्माकमप्यभिभवो मा भूदिति भयं प्राप्येवेति यावत् । युगपत् अहंपूर्वमहंपूर्वमित्यवं सहैव, प्रसादनार्थमिति भावः । त्वत्पादौ उपलक्षणत्वात्त्वत्पादाधिष्ठितसमवसरणासन्नभूमिम् , पर्युपासते आश्रयन्ति, अन्योऽपि हि लोके यतो भयम् , तमनुकूलनाय सेवते इति भावः । समवसरणासन्नप्रदेशेषु देवैः सर्व. वो विक्रियन्ते इत्येवमुक्तिः ॥९॥
सुगन्ध्युदकवृष्टयाद्यतिशयमाहसुगन्ध्युदकवर्षेण दिव्यपुष्पोत्करेण च । भावित्वत्पादसंस्पर्शा पूजयन्ति भुवं सुराः ॥ १० ॥
स्विति-सुराः, भावित्वत्पादसंस्पर्शाम् भावी तव पादयोः संस्पर्शो विहारे न्यासादिना यत्र, समवसरणे च, तां तादृशीम् भुवम् भूमिम् , सुगन्ध्युदकवर्षेण-सुगन्धिजलसिञ्चनेन कृत्वा दिव्यपुष्पोत्करण-दिव्यानां पारिजातादीनां पुष्पाणामुत्करेण प्रकरण पुञ्जेन रचनाविशेषेण वा, चः, समुच्चये, पूजयन्ति, न केवर त्वामेव, भक्त्यतिशयादिति भावः । देवा वीतरागपदन्यासात्पूर्वमेव भूमौ सुगन्धिवारि सिञ्चन्ति, पुष्पाणि च विकिरन्तीत्येवमुक्तिः ॥१०॥
पक्षिप्रदक्षिणाऽतिशयमाहजगत्प्रतीक्ष्य! त्वां यान्ति पक्षिणोऽपि प्रदक्षिणम् का गति महतां तेषां त्वयि ये वामवृत्तयः ॥११
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org