SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः तीर्थकराणां तथेति त्वमेव सर्वमहानिति भावः ॥ ७ ॥ विषयाऽऽनुकूल्याऽतिशयमाहशब्दरूपरसस्पर्शगन्धाख्याः पञ्च गोचराः । भजन्ति प्रातिकूल्यं न त्वदग्रे तार्किका इव ॥८॥ शब्देति-त्वदग्रे, तार्किकाः तर्कविदो बौद्धादयः, न तु यथास्थितवस्तुविद इति साभिप्रायविशेषणमेतदिति बोध्यम् । ते इव, पञ्च, शब्दरूपरसस्पर्शगन्धाख्याः, गोचराः इन्द्रियार्थाः, विषया इत्यर्थः । “ गोचरा इन्द्रियार्थाश्चे” त्यमरः । प्रातिकूल्यम्=अमनोज्ञताम् , न, भजन्ति आश्रयन्ति, यथा त्वदीययथावस्थितवस्तुप्रतिपादनेन कृत्वा कुण्ठितप्रसरा बौद्धादयः, प्रतिकूलतां त्वद्विरोधितां त्यजन्ति, तथा त्वद्विहारदेशादौ शब्दादयोऽरुचिविषयत्वं त्यजन्ति । तार्किकवच्छब्दादयोऽप्यनुकूला एव भवन्तीति यावत् । देवैः प्रतिकूलानां शब्दादीनां निरसनादिति भावः ॥८॥ सर्ववानुकूल्याऽतिशयमाहत्वत्पादावृतवः सर्वे युगपत्पर्युपासते । आकालकृतकन्दर्पसाहायकभयादिव ॥९॥ त्वदिति-सर्व घडपि, ऋतवः वसन्ताद्या मासद्वयमाना वर्षभागविशेषाः ख्याताः, आकालकृतकन्दर्पसाहायकभयादिव= आकालमा संसारम् , अनादिकालमभिव्याप्येत्यर्थः । कृतं यत्कन्दर्पस्य कामस्य साहायकम् साहाय्यम् , जनमनोदूषणे कामस्यर्तवः सहा Jain Education International 2010_Bor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy