SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् पइरिक्कं उवस्सयं लद्धं कल्लाणं अदुव पावगं । किमेगरायं करिस्सइ एवं तत्थहियासए ॥२३॥ व्याख्या-'पइरिक्कं ति' स्त्र्यादिरहितत्वेनाव्याबाधमुपाश्रयं लब्ध्वा 'कल्लाणं' शोभनमथवा पापकमशोभनं किं न किञ्चित् सुखं दुःखं चेति गम्यमेकरात्रं करिष्यति । कल्याणः पापको वोपाश्रय इति कोऽर्थः ? 'केचित् सुकृतिनो मणि-काञ्चनमयेष्वन्ये तृणमय-धूल्याद्याकीर्णेषु गृहेषु नित्यं वसन्ति, मम त्वद्यैवेदृशी वसतिः श्वोऽन्या भविष्यति, किमत्र हर्ष-विषादाभ्याम् ?' । एवं तत्र शुभेऽशुभे वोपाश्रयेऽध्यासीत, सुखं दुःखं वाऽधिसहेत् । जिनकल्पिकापेक्षमेकरात्रमितरापेक्षया कतिपया रात्रयः । इत्येकादशः परीषहः। एवं चर्यादिपरीषहास्त्रयः सोढव्याः पुरन्दर-कीर्तिधर-सुकोशलमुनिवत् । तथाहि सङ्केत इव साकेतं पुरमस्त्यखिलश्रियम् । यत्रात एव दृश्यन्तेऽनन्यतुल्या धनेश्वराः ॥१॥ तत्रास्ति विजयो राजा स्नेहोपचितमित्रवत् । प्रारब्धसर्वकार्येषु जयो यमभजत्तमाम् ॥२॥ आसीन्महिमचूलाऽस्य महिम्नां धाम वल्लभा । यस्या हंसः सदा धर्मसरस्यां रमतेतराम् ।।३।। असूत सा क्रमात् पुत्रौ वज्रबाह-पुरन्दरौ । अश्विनाविव काश्यप्यां रूप-सौन्दर्यशालिनौ ॥४॥ इतो नागपुरे क्षमापः सबलो हरिवाहनः । प्रियाऽस्य रत्नचूलाऽऽसीद् दुहिताऽस्या मनोहरा ॥५॥ पित्रा सा यौवने दत्तौजस्विने वज्रबाहवे । तामुपायंस्त स प्रौढविभवाभोगभासुरम् ॥६।। अथ प्रतिनिवृत्तोऽसौ तामादाय स्ववेश्मने । स्वसुः प्रेम्णा सहागच्छत् तद्भातोदयसुन्दरः ॥७॥ तदा चास्ति वसन्तर्तुर्वने यत्र मधुव्रताः । काञ्चनारकलीत्रस्ता वासन्तीं भेजिरे मुदा ॥८॥ मुनिरेको गिरेः शीर्षे भ्रमरारावबन्धुरे । तप्यमानस्तपस्तीव्रमुपमार्गमवर्तत ॥९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy