SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तरज्झयणाणि-१ नैषेधिकीपरीषहोऽपि चर्यावच्छरीराप्रतिबद्धैरेव विषह्यत इति सदृशतया चर्यासमं नषेधिकीपरीषहमाह सुसाणे सुन्नगारे वा रुक्खमूले व एगओ । अकुक्कुओ निसीइज्जा न य वित्तासए परं ॥२०॥ व्याख्या—स्मशानादावेककः प्रागुक्तार्थः । अकुत्कुचोऽशिष्टचेष्टारहितः । कुन्थ्वादिविराधनाभयात् कारणं विना करायचालयन् वा निषीदेत् तिष्ठेत् । न च वित्रासयेत् परमन्यं, को भावः ? "पंडिमं पडिवज्जिया मसाणे नो भाए भयभेरवाइं दिस्स ।। विविहगुणतवोरए निच्चं न सरीरं वाभिकंखए स भिक्खू" ॥ इत्याद्यागमं स्मरन् भयानकेऽपि प्रदेशे न स्वयं बिभीयाद् न चान्यं भापयेन्मुख-स्वरविकारादिभिः ॥२०॥ किञ्च तत्थ से अच्छमाणस्स उवसग्गाभिधारए । संकाभीओ न गच्छिज्जा उट्टित्ता अन्नमासणं ॥२१॥ व्याख्या-तत्र स्मशानादौ 'से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सोपस्कारत्वात् सूत्रस्य सम्भवेयुस्तान् मुनिरभिधारयेत् किमेते निश्चलचेतसो मे करिष्यन्तीति चिन्तयेत् । शङ्काभीतस्तत्कृतापकारशङ्कातस्त्रस्तो न गच्छेदुत्थाय स्वस्थानादन्यदासनमेवं नैषेधिकीपरीषहः । इति दशमो नैषेधिकीपरीषहः ॥२१॥ नैषेधिकीतः स्वाध्यायं विधाय शय्यां प्रत्यागच्छतीति तत्परीषहमाह उच्चावयाहिं सेज्जाहिं तवस्सी भिक्खू थामवं । नाइवेलं विहन्निज्जा पावदिट्ठी विहन्नइ ॥२२॥ व्याख्या-उच्चाः शीतादिवारकत्वादिगुणैरवचास्तद्विपरीतत्वेन नीचास्ततो द्वन्द्वे उच्चावचाभिः शय्याभिर्वसतिभिस्तपस्वी भिक्षः स्थामवान् शीतादिसहनं प्रति सामर्थ्यवान् नातिवेलं स्वाध्यायादिवेलाऽतिक्रमेण विहन्यात्, हनेर्गत्यर्थत्वात् न शीताद्यभिभूतः स्थानान्तरं गच्छेत् । यतः पापदृष्टिर्दुर्बुद्धिर्विहन्त्यपि ॥२२॥ किं तर्हि कुर्यादित्याह१. प्रतिमा प्रतिपद्य श्मशाने न बिभेति भयभैरवाणि दृष्ट्वा । विविधगुणतपोरतो नित्यं न शरीरं वाऽभिकाङ्क्षते स भिक्षुः ॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy