SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथाः ३५४०-४७] द्वितीय उद्देशः । सज्झायकरणआउट्टिता करे उग्गमेगतरे ॥३५४३ ॥ गच्छस्य यद् बाहुल्यं-साधूनां प्राचुर्य तस्माद्धेतोः प्रथमालिका-पानकौषधादिकार्येषु पुनः पुनः प्रविशतां तथा स्वाध्यायश्रवणेन करणेन च-यथोक्त क्रियाकलापानुष्ठानेन आवर्तिताः-आवर्जिता उद्गमदोषाणामेकतरान् कुर्युः ॥ ३५४३ ॥ १ अविमुक्तिद्वारमाह-~ दव्वे भावऽविमुत्ती, दव्वे वीरल्ल हारुबंधणता । ___ सउणग्गहँणे कड्डण, पइद्ध मुको वि आणेइ ॥ ३५४४ ॥ अविमुक्तिर्द्विधा-द्रव्यतो भावतश्च । द्रव्याविमुक्तौ 'वीरल्ल.' ओलायक: पक्षी दृष्टान्तः । स सायुः-तन्त्री तद्वन्धनेन पादे बवा यत्र तित्तिरिप्रभृतिकः पक्षी दृश्यते तत्र मुच्यते, ततस्तेन यदा तस्य शकुनकस्य ग्रहणं कृतं स्यात् तदा भूयोऽपि तयैव तत्र्या तस्य कर्षणं क्रियते, तत आगतस्य हस्ततले मांसं दीयते, ततो मांसे 'प्रगृद्धः' आसक्तः सन् मुक्तोऽपि स्नायुबन्धनमन्तरे-10 णापि शकुनिमानयति, आनीय च तत्रैवावतिष्ठते ॥ ३५४४ ।। एषा द्रव्याविमुक्तिः । अथ भावाविमुक्तिमाह भावे उक्कोस-पणीयगेहितो तं कुलं ण छड्डेति । व्हाणादी कजेसु व, गतो वि दूरं पुणो एति ॥ ३५४५ ॥ 'भावे' भावाविमुक्तिः पुनरियम्-उत्कृष्टद्रव्यं-शाल्योदनादि प्रणीतं-घृतादि तयोर्या 15 गृद्धिः-लौल्यं ततः 'तत् कुलं' शय्यातरसम्बन्धि न परित्यजति । अथवा स्नान-रथयात्रादौ पर्वणि कार्येषु च-कुल-गण-सङ्घप्रयोजनेषु दूरमपि गतो भूयः तत् कुलमागच्छति ॥३५४५॥ अथालाघवतां व्याचष्टे उवहि सरीरमलाघव, देहे णिद्धाइविंघियसरीरो। संघसग-सासभया, ण विहरइ विहारकामो वि ॥ ३५४६ ॥ 20 'अलाघवं' गौरवं तच्च द्विधा-उपधौ शरीरे च । तत्र 'देहे' देहविषयमलाघवमिदम्स्निग्धं-घृतादि तेन आदिशब्दाद् गुड-शर्करादिमधुरद्रव्यैः प्रतिदिनमभ्यवह्रियमाणैर्वृहितशरीरः सन् मार्गे गच्छतां शरीरजाड्यसमुत्थो यो गात्रसङ्घर्षों यश्च श्वासः तद्भयाद् विहरणकामोऽपि न विहरति ॥ ३५४६॥ अथोपकरणालाघवमाह सागारि-पुत्त-भाउग-णत्तुग दाण अतिखद्ध भारभया । ण विहरति ओम सावय, णियडाऽगणि भाण एज त्ति ॥ ३५४७॥ सागारिकेण-शय्यातरेण तदीयैश्च पुत्रैतृभिर्नप्तृभिश्च-पौत्रैः कस्यापि साधोरतिखद्धस्यअतीवप्रभूतस्य कम्बलाद्युपकरणस्य दानमकारि, स च साधुस्तद्भारभयान्न विहरति । अन्यदा च तत्र 'अवमं' दुर्भिक्ष सञ्जातम् , स च तदापि न विहरति । “सावय" त्ति श्रावकेण चिन्तितम्एष साधुः किमद्यापि न विहरति ? नूनं बहूपकरणप्रतिबद्धोऽयम् । ततस्तेन श्रावकेण तस्य 3) संयतस्य भिक्षाद्यर्थं विनिर्गतस्य सर्वमप्युपकरणं निष्काश्यान्यत्र सङ्गोप्य 'निकृत्या' मायया १°शन्तः तथा भा० का ० विना ॥ २१ एतदन्तर्गतमवतरणं भा० नास्ति ॥३°हणाऽऽकडे भाताभा.॥४°स्य आक° भा. कां. ॥५ मांसप्रगृद्धः सन् भा० ॥ 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy