SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ तित्थंकरपडिकुट्टो, आणा अण्णाय उग्गमों ण सुज्झे । अविमुत्ति अलाघवता, दुल्लभ सेजा य वोच्छेदो ॥ ३५४० ॥ तीर्थकरैः प्रतिकुष्टः - निषिद्धः शय्यातर पिण्डोऽतस्तं गृह्णता तेषामाज्ञा न कृता भवति । “अन्नाय” त्ति 'अज्ञातोन्छम् ' आसन्ननिवासवशाद् ज्ञातस्वरूपतया न शुध्यति । प्रत्यासन्नतया तत्रैव पुनः पुनः भैक्ष-पानादिनिमित्तं प्रविशत उद्गमोऽपि न शुध्यति । 'अविमुक्तिर्नाम ' स्वाध्यायश्रवणादिना आवर्जितः शय्यातरो दुग्ध-दध्यादि प्रणीतद्रव्यं ददाति, तग्रहण लोलुपतया गृहं न विमुञ्चति । 'अलाघवता तु' विशिष्टाहारलाभेन उपचितगल- कपोलतया शरीरलाघवं 10 प्रचुरवस्त्रादिलाभेन उपकरणलाघवं च न भवेत् । दुर्लभा च शय्या भवति, येन किल शय्या दत्ता तेनाहाराद्यपि देयमिति भयाद् भूयः शय्यामगारिणो न प्रयच्छन्तीति भावः । ' व्यवच्छेदश्व' विनाशः शय्यायाः क्रियेत, अथवा भक्त-पानादिप्रतिषेध इह व्यवच्छेदशब्देनोच्यते । एर्षं निर्युक्तिगाथासमासार्थः ॥ ३५४० ॥ अथैनामेव प्रतिपदं विवृणोति 5 15 ९८६ सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ सागारिक० सूत्रम् १३ परं रजोहरणध्वजो दृश्यते इति कृत्वा लिङ्गस्थस्यापि शय्यातरः परिह्रियते ॥ ३५३९ ॥ अथ 'के दोषाः ?' इति द्वारमाह - पूर्वस्तीर्थकरः - ऋषभखामी पश्चिमः -श्रीमन्महावीरः एतद्वजैरजितादिभिर्मध्यमजिनवरैर्विदेहजैश्च तीर्थकरैराधाकर्मापि 'लेशेन' सूत्रादेशतः 'भुक्तं ' भोक्तुमनुज्ञातमिति भावः, 'न च' नैव सागारिकस्य पिण्डः । इयमत्र भावना - मध्यमतीर्थकृतां - विदेर्हेतीर्थकृतां . च ये साधवस्तेषां यस्यैव योग्यमाधाकर्म कृतं तस्यैव न कल्पते शेषाणां तु कल्पते इति तैराधाकर्मभोजनमपि 20 कथञ्चदनुज्ञातम्, न पुनः शय्यातरपिण्डः, सेज्जारपिंडम्मी, चाउज्जामे य पुरिसजिट्टे य । किइकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा ॥ ( पञ्चाश० १७ - १० ) इति वचनात् ॥ ३५४१ ॥ अथाज्ञाद्वारमज्ञातोञ्छद्वारं चाह - 25 पुर- पच्छिम जेहिं, अवि कम्मं जिणवरेहिं लेसेणं । भुत्तं विदेहहि य, ण य सागरियस्स पिंडो उ ।। ३५४१ ॥ सव्वेसि तेसि आणा, तप्परिहारीण गेण्हता ण कता । अण्णाउंछं न जुञ्जति, जहिं ठितो गेव्हतो तत्थ ।। ३५४२ ।। सर्वेषामपि 'तेषां' तीर्थकृतां 'तत्परिहारिणां' शय्यातर पिण्डप्रतिषेध कारिणामाज्ञा तत्पिण्डं गृह्णता न कृता भवति । तथा यत्रैव गृहे स्थितस्तत्रैव भिक्षां गृह्णतोऽज्ञातोञ्छं 'न युज्यते' न घटते, न शुध्यतीत्यर्थः, अज्ञातस्य - अविदितस्य यद् उञ्छं - भैक्षग्रहणं तदज्ञातोञ्छमिति व्युत्पत्तेः ॥ ३५४२ ॥ - उगमाशुद्धिद्वारमाह- -Do 30 बाहुल्ला गच्छस्स उ, पढमालिय- पाणगादिकजेसु । ४ १ 'जा विउच्छेदो ताभा० ॥ २ 'नकादि भा० कां० ॥ ३°ष सङ्ग्रहगा' भा० ॥ एतदन्तर्गतः पाठः भा० कां० एव वर्त्तते ॥ ५ एतदन्तर्गतमवतरणं भा० नास्ति ॥ ६ अतः सर्वे' भा० ॥ ७एतदन्तर्गतमवतरणं भा० नास्ति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002513
Book TitleAgam 35 Chhed 02 Bruhatkalpa Sutra Part 04
Original Sutra AuthorBhadrabahuswami
AuthorChaturvijay, Punyavijay
PublisherAtmanand Jain Sabha
Publication Year2002
Total Pages444
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy