________________
सामान्यनीतिः
पाणिनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥ ७९ ॥ न कुर्यादभिचारोग्रवश्यादिकुहकक्रियाम् । लक्ष्मणेनेन्द्रजित्कृत्याभिचारसमये हृतः ॥ ८० ॥ व्याकुलोऽपि विपत्पातैः स्मरेद्विष्णुं सदा हृदि । शरतल्पगतो भीष्मः सस्मार गरुडध्वजम् ॥ ८१ ॥ चिन्ता जरा मनुष्याणा - मनध्वा वाजिनां जरा । असंभोगो जरा स्त्रीणां वस्त्राणा - मातपो जरा ॥ ८२ ॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ॥ ८३ ॥ पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह । पञ्चभिः सद् वक्तव्यं न दुःखं पञ्चभिः सह ॥ ८४ ॥ यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम् । अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ॥ ८५ ॥ विद्याभ्यासो विचारश्च सम्योरेव शोभते । विवाहश्च विवादश्च समयोरेव शोभते ॥ ८६ ॥ लक्ष्मीर्वसति जिह्वाग्रे जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं प्राप्तं जिह्वाग्रे मरणं ध्रुवम् ॥ ८७ ॥ यस्मिन्देशे न संमानो न प्रीतिर्न च बान्धवाः । न च विद्यागमः कश्चिन्न तत्र दिवसं वसेत् ॥ ८८ ॥ वहेदमित्रं स्कन्धेन यावत्कालविपर्ययः । अथैवमागते काले भिन्द्याद्घटमिवाश्मनि ॥ ८९ ॥ सर्वनाशे समुत्पन्ने ह्यर्धं त्यजति पण्डितः । अर्धे कार्य सर्वनाशो न जायते ॥ ९० ॥ मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च । द्विषतां संप्रयोगेण पण्डितोऽप्यवसीदति ॥ ९१ ॥ मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।
I
चतुर्णामपि चैतेषां निष्कृतिर्नैव विश्रुता ॥ ९२ ॥ गतश्री - र्गणकान्द्वेष्टि गतायुश्च चिकित्सकान् । गतश्रीश्च गतायुश्च ब्राह्मणान्द्वेष्टि भारत ॥ ९३ ॥ आत्मबुद्धिः सुखायैव गुरुबुद्धिर्विशेषतः । परबुद्धिर्विना॒शाय स्त्रीबुद्धिः प्रलयावहा ॥ ९४ ॥ विस्मयः सर्वथा हेयः प्रत्यूहः सर्वकर्मणाम् । तस्माद्विस्मयमुत्सृज्य _साध्यसिद्धिर्विधीयताम् ॥ ९५ ॥ विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् । नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि ॥ ९६ ॥ लुब्धमर्थन गृहीयात्कुद्धमञ्जलिकर्मणा । मूर्ख छन्दानुवृत्त्या च तत्त्वार्थेन च पण्डितम् ॥ ९७॥ जानीयात्संगरे भृत्यान्बान्धवान्व्यसनागमे । आपत्कालेषु मित्राणि भार्यां च विभवक्षये ॥ ९८ ॥ खरं श्वानं गजं मत्तं रण्डां च बहुभाषिणीम् । राजपुत्रं कुमित्रं च दूरतः परिवर्जयेत् ॥ ९९ ॥ दूरस्थं जलमध्यस्थं धावन्तं धनगर्वित । तं तं नमस्कारेऽपि वर्जयेत् ॥ १०० ॥ पिपीलिकार्जितं धान्यं
१ न्यायमार्गानुसारिणः २ तिर्यग्जातीयाः पशव इत्यर्थः ३ तज्जनितपापपरिहारः ४ त्याज्यः ५ विघ्नरूपः.
१५५
मक्षिकासंचितं मधु । लुब्धेन संचितं द्रव्यं समूलं च विनश्यति ॥ १०१ ॥ न सारणीया धीरेण रसना नीरसे जने । को नाम कुरुते फेरौ नायकः सायकक्षतिम् ॥१०२॥ धातुवादेषु वित्ताशा मोक्षाशा कौलिके मते । जामातरि च पुत्राशा त्रयमेतन्निरर्थकम् ॥ १०३ ॥ द्वाविमौ पुरुषौ लोके सुखिनौ न कदाचन । यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ १०४ ॥ द्वाविमौ पुरुषौ लोके परप्रत्ययकारकौ । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ १०५ ॥ द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ १०६ ॥ द्वाविमौ पुरुषौ लोके स्वर्गस्योपरि तिष्ठतः । प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ १०७ ॥ द्वाविमौ पुरुषौ लोके न भूतो न भविष्यतः । प्रार्थितं यश्च कुरुते यश्च नार्थयते परम् ॥ १०८ ॥ द्वाविमौ पुरुषौ लोके शिरःशूलकरावुभौ । गृहस्थश्च निरारम्भो यतिश्च सपरिग्रहः ॥ १०९ ॥ शत्रुर्दहति संयोगे वियोगे मित्रमप्यहो । उभयोर्दुःखदायित्वं को भेदः शत्रुमित्रयोः ॥११०॥ दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः । ससर्पे च गृहे वासो मृत्युरेव न संशयः ॥ १११ ॥ ददतो युध्यमानस्य पठतः पुलको न चेत् । आत्मनश्च परेषां च चिक्त्यागं पौरुषं श्रुतम् ॥ ११२ ॥ न तद्भुक्तं न तत्पीतं न तत्प् न तद्गतम् । यन्मांसमाहिषक्षीरलेलनावाजिवर्जितम् ॥११३॥ निःसारस्य पदार्थस्य प्रायेणाडम्बरो महान् । न सुवर्णे ध्वनिस्तादृग्यादृक्कांस्ये प्रजायते ॥ ११४ ॥ मासि मासि समा ज्योत्स्ना I
पक्षयोरुभयोरपि । तत्रैकः शुक्लपक्षोऽभूद्यशः पुण्यैरवाप्यते ॥ ११५ ॥ मत्स्यादयोऽपि जानन्ति नीरक्षीरविवेचनम् । परं प्रसिद्धिर्हसस्य यशः पुण्यैरवाप्यते ॥ ११६ ॥ पञ्चभिः कामिता कुन्ती तद्वधूरथ पञ्चभिः । सतीं वदति लोकोऽयं यशः पुण्यैरवाप्यते ॥ ११७ ॥ सौभाग्यं विरलस्य स्यात्समकर्मगुणेष्वपि । षडूिंशदायुधा पृथ्वी खड्गायत्तैव दृश्यते ॥ ११८ ॥ हस्तादपि न दातव्यं गृहादपि न दीयते । परोपकरणार्थाय वचने किं दरिद्रता ॥ ११९॥ बनानि दहतो वह्नेः सखा भवति मारुतः । स एव दीपनाशाय कुशे कस्यास्ति सौहृदम् ॥ १२० ॥ भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः । विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ १२१ ॥ जानन्ति हि गुणान्वक्तुं तद्विधा एव तादृशाम् । वेत्ति विश्वंभरा भारं गिरीणां गरिमाश्रयन् ॥ १२२ ॥ जीवन्तोऽपि नृताः पञ्च व्यासेन परिकीर्तिताः । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥ १२३ ॥
१ जंबुके. २ स्त्री. ३ अश्वः . ४ मित्रभावः.