SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सत्कायदृष्टिः दृश्यन्ते ते भ्रान्तिनिमित्तोपनीतत्वादागन्तवोऽस्वभावभूताश्चेतसः। तमः तुहिनादय इव नभसः (२१०)। तत्प्रागप्यसमर्थानां पश्चाच्छक्तिः क तन्मये । तत्प्रागपि तस्मान्नैरात्म्यदर्शनात्पूर्वमपि ततः श्रुतचिन्ताध्यवसानेप्यापातविष्कम्भनादुत्पत्तुमसमर्थानां मलानां पश्चान्मार्गनिष्पत्तौ शक्तिरुत्पत्तुं क्व तन्मये मार्गसात्म्ये स्वरूपे (1) एतदेवाह (1) नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि ॥२११॥ . . बाधकोत्पत्तिसामथ्यगर्भ शक्तोऽपि वस्तुनि । शक्तोऽप्युद्धतोपि मनोमलो नालमत्यन्तं प्ररोढुं वस्तुनि चित्तसन्ताने कीदृशे बाधकोत्पत्तिसामर्थ्यगर्भे सर्वदृष्टिबाधकस्य नैरात्म्यदर्शनस्य मार्गसत्योत्पत्तिस्तस्यां सामर्थ्य प्रभविष्णुत्वं तद्गर्भे आनन्तर्यस्य गर्भे तस्मिन् स्यन्दिन्यां' भुवि अग्निवत् (२११)। यथा हि वह्नर्हेतुबलादुत्पन्नोपि स्यन्दिन्यां भुवि बाधकवत्यां नात्यन्तं प्ररोहति तथा मार्गोत्पत्तिसामर्थ्यगर्भे चेतस्युत्पन्ना अपि मला नात्यन्तं विरोहन्ति। सात्मीभूतमा गर्गे तु हेतुवैकल्यान्नोत्पद्यन्त एव। ....... (ख) नैरात्म्यदर्शने दोषोत्पत्तिव्यवस्था । कथञ्च नैरात्म्यदर्शिनो मलोत्पत्तिराशंक्यते। न तावत् हेतुसाकल्यात्सत्वदृष्टेर्हेतुभूताया अभावात् नैरात्म्यदर्शनवत् सत्त्वदर्शनञ्च भावनयोत्पन्नं हेतुरिति चेत्॥ -- कुतस्तस्य भावना। किन्नरात्म्यस्य सो'पद्रवत्वात्। किञ्चाभूतत्वेन भ्रमहेतुत्वात्। अस्वभावेनोपहन्तुं शक्यत्वाद्वा। एतत्त्रयमसङ्गतमित्याह (1) निरुपद्रवभूतार्थस्वभावस्य विपर्ययैः ।।२१२॥ न बाधा यत्नवत्वेऽपि बुद्धस्तत्पक्षपाततः। दोषराशेरुद्वेजकस्य प्रहाणेन निरुपद्रवस्य प्रमाणसम्वादि त्वेन भूतार्थस्य सत्यार्थस्यानारोपितत्वेन स्वभावस्य प्रकृतेनॆरात्म्यस्याभिरुचितविषयस्य विपर्ययेष्वात्माद्याकारेष्वभ्यासे सोपद्रवत्वादिना प्रयत्न एव तावन्न सम्भवति प्रेक्षस्य । सम्भवेपि वा विपर्ययैः (१२१२) 'नित्यमुदकलाविष्यां। नैरात्म्ये यदि दोषः स्यात्तदा सत्त्वदर्शनं भावयेत् । तच्च नास्ति दोषत्रयस्याप्यभावात्।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy