SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्र० वा० वृत्तौ (१ परिच्छेदः) ___नाविभुत्वतः असामर्थ्यात्। मार्गसात्म्येऽपि स्थितस्य चेतसि न दोषाणामुत्पत्तुं सामर्थ्य मस्ति। तन्निदानभूतस्य सत्वदर्शनस्योन्मूलितत्वात् । अनेन शान्तत इति निरोधाकार उक्तो दोषाणां सर्वथा शान्तत्वात् ।' ग. सत्कायदृष्टिः - (क) सत्वदर्शनाभावे कारणम् सत्वदर्शनमेव पुनः कस्मान्न भवतीत्याह (1) विषयग्रहणं धर्मों विज्ञानस्य यथास्ति सः ॥२०८॥ गृह्यते सोऽस्य जनको विद्यमानात्मनेति च । - विषयग्रहणम्विज्ञानस्य तावत्सति ग्राह्यग्राहकभावो धर्म: यथा चास्ति स स विषयस्तथा गृह्यते। विज्ञानेन विषयिणा (२०८)। स च विषयोस्य विज्ञानस्य जनको विद्यमानेनात्मना यथावस्थितेन रूपेण। एषा प्रकृतिरस्यास्तन्निमित्तान्तरतः स्खलत् ॥२०९॥ व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत् । यथावस्थितवस्तुग्रहणञ्च नात्मैषा प्रकृतिः स्वभावो ज्ञानस्य विषयिणः । यथास्वभावं स्वग्राहिज्ञानजननञ्च विषयस्य प्रकृतिः। अस्याः प्रकृतेस्तज्ज्ञानं निमित्तान्तरतः आन्तरादविद्यारूपादागन्तुकाच्च विषयदोषादेः स्खलद्विषयग्रहणविपरीताकारं भवति (१२०९) तच्च व्यावृत्तौ विषयविपरीतग्रहणाकारताया निवृत्त्यर्थ प्रत्ययापेक्ष भ्रान्तिनिवर्तककारणमपेक्ष्यमाणमदृढमस्था ष्णु सर्पबुद्धिवत् । यथा सर्पबुद्धी रज्वा भ्रान्तिनिमित्ता' जाता रज्जुस्वरूपग्राहिणः प्रत्ययान्निवृत्ता न पुनरुद्भवतीति। तथा भ्रान्तिनिमित्तनिरासात् दृष्टे नैरात्म्ये वस्तुनि सति नास्ति सत्त्वे दृष्टिसम्भवः' ज्ञानस्य विषयस्वरूपग्रहणप्रवणत्वात्। विषयस्य च स्वाकारार्पणप्रवृत्तत्वात्। a. किञ्च (1) प्रभास्वरमिदञ्चित्तं प्रकृत्यागन्तवो मलाः ॥२१०॥ प्रभास्वरमनात्मभूतदोषसञ्चयमिदं चित्तं प्रकृत्या स्वभावेन। ये तु मनोदोषा 'प्रकृतिशुद्धहेमवत्। 'अर्थपाहिज्ञानमिच्छतो वक्तव्यः। 'सत्वाध्यवसायि। मन्दमन्वप्रकाशे सोंचिते प्रदेशे। 'असहजागन्तुर्दोषः। नैरात्म्यं प्रकृतिः प्रमासिद्धिः।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy