SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ८१२ योगशास्त्रे तथा रागादितिमिरध्वस्त ज्ञानेन मनसा जनः । अधेनान्ध वाकृष्टः पात्यते नरकावटे ॥ ४८॥ रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमणोविप्लव: तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन तथाविधेन मनसा आकष्टो जनो नरकावटे नरक कूप पात्यते। केन क इव ? अन्धेनान्ध इव। रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः, तस्यैव मार्गदर्शकत्वात्। ततो यथाऽन्धेनान्धः समाक्ष्याऽवटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकावटे पात्यते । . . अत्रान्तरश्लोकाः द्रव्यादिषु रतिप्रीती राग इत्यभिधीयते । तेष्वेवारतिमप्रीतिं चाहुषं मनीषिणः ॥ १ ॥ । उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोक हानां मूलकन्दौ प्रकीर्तितौ ॥ २ ॥ कः सुखे विस्मयस्मेरो दुःखे कः कपणो भवेत् ? । मोक्षं को नाप्नया रागद्देषौ स्यातां न चेदिह ॥ ३ ॥ रागण ह्यविनाभावी हेषो देषेण चेतरः । तयोरेक तरत्यागे परित्यक्तावुभावपि ॥ ४ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारकाः । मिथ्याभिमानप्रमुखा हेषस्य तु परिच्छदः ॥ ५ ॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy