SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रकाशः । शद्दत्वं हित्वा आत्मा भावमनोरूपः खकीये स्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ॥ ४५ ॥ अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह - ८११ आत्मायत्तमपि खान्तं कुर्वतामव योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मायत्तमपि आत्मनि निमग्नमपि स्वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी रागद्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्त द्दिष्टं मूढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथा रक्ष्यमाणमपि खान्तं समादाय मनाग् मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥ रक्ष्यमाणमपि गोप्यमानमपि यमनियमादिभिर्मन्त्र तन्त्रप्रायः स्वान्तं भावमनः, समादाय पुरस्कृत्य मनाग् मिषं स्वल्पं छलं प्रमादरूपं, छलयन्ति - श्रात्मवशं कुर्वन्ति । क एते ? रागादयः क इव ? पिशाचा द्रव | मुहुर्मुहुरिति यदा यदा प्रमादलेशोऽपि भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिक्कतरक्षमपि साधकं वलं प्राप्यात्मवशं कुर्वन्ति, तथा रागादयोऽपि योगिमन इति ॥४७॥
SR No.002397
Book TitleYogshastra Part 06
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1921
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy