SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ६२१ तृतीयः प्रकाशः। इति वचनात्, तदिह येषामेव बीजाधानोझेदपोषणैर्योगः, क्षेमं च तत्तदुपद्रवरक्षणेन ते एव भव्या लोकशब्देन गृह्यन्ते, न चैते योगक्षेमे सकलभव्यसत्त्व विषये कस्यचित्सम्भवतः सर्वेषामेव मुक्तिप्रसङ्गात्तस्मादक्तस्यैव लोकस्य नाथा इति, तथा लोकहितेभ्यः, इह लोकशब्देन सकल एव सांव्यवहारिकादिभेदभिन्नः प्राणिवर्गो गृह्यते, तस्मै सम्यग्दर्शनप्ररूपणरक्षणयोगेन हिता लोकहिताः, तथा लोकप्रदीपेभ्यः, अत्र लोकशब्देन विशिष्ट एव देशनाद्यंशभिमिथ्यात्वतमोऽपनयनेन यथाहं प्रकाशितज्ञेयभावः संज़िलोकः परि. ग्राह्यते तं प्रत्येव भगवतां प्रदीपत्वोपपत्तेः। नह्यन्धं प्रति प्रदीपः प्रदीपो नाम । तदेवंविधं लोकं प्रति प्रदीपा लोकप्रदीपाः, तथा लोकप्रद्योतकरेभ्यः, इह लोकशब्देन विशिष्टचतुर्दशपूर्वविल्लोकः परिगृह्यते, तत्रैव तत्त्वत: प्रद्योतकरत्वोपपत्तेः, प्रद्योतं च सप्तप्रकारं जीवादिवस्तुतत्त्वं तत्प्रद्योतकरणञ्च विशिष्टानामेव पूर्व विदा भवति, तेऽपि षट्स्थानपतिता एव श्रूयन्ते, न च तेषां सर्वेषामपि प्रद्योतः सम्भवति, प्रद्योतो हि विशिष्ट तत्त्वसंवेदनयोग्यता सा च विशिष्टानामेव भवति। तेन विशिष्ट चतुर्दशपूर्व विलोकापेक्षया प्रद्योतकरा एवं लोकोत्तमत्वादिभिः पञ्चभिः प्रकारैः परार्थकरणाः स्तोतव्यसम्पदः सामान्ये नोपयोगसम्पच्चतुर्थी ।४। इदानीमुपयोगसम्पद एव हेतुसंपदुच्यते। अभयदयाणं चक्खुदयाणं मग दयाणं सरणदयाणं बोहिदया-इह अभयं सप्तधा इहपरलोका-ऽऽदाना-ऽकम्मादा-ऽऽजीव-मरण-श्लाघाभेदेनैतप्रतिपक्षतोऽभयं विशिष्टमात्मन: स्वास्थ्यं निःश्रेयसे धर्मभूमिकानिबन्धनभूतं
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy