SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ६२० योगशास्त्रे विनयीनगुणोपमापूर्वकमधिकगुणोपमारे इष्यन्ते अभिधानक्रमाभावे अभिधेयमपि तहदक्रमवदसदितिवचनादेतन्निरासायाह -पुरुषवरगन्धहस्तिभ्यः पुरुषा वरगन्धहस्तिन इव वरगजेन्द्रा इव पुरुषवरगन्धहस्तिनः यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रगजा भज्यन्ते तहदिति परचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्वगजा भगवतामचिन्त्यपुण्यानुभावानां विहारपवनगन्धादेव भज्यन्ते, न चैवमभिधानक्रमाभावेऽभिधेयमपि क्रमवदसदिति वाच्यम् । सर्वगुणानामेकनाऽन्योऽन्यसंवलितत्वेनावस्थानात्, तेषां यथारुचि स्तोत्राभिधाने न दोषः। एवं पुरुषोत्तमत्वादिना प्रकारेण स्तोतव्यसम्पद एव हेतुविशेषसम्पत्ततीया ।३। इदानों स्तोतव्यसम्पद एव सामान्येनोपयोगसम्पदमाह - लोगुत्तमाणं लोगनाहाणं लोगहिआणं लोगपईवाणं लोगपज्जोअगराणं-समुदायेष्वपि प्रवृत्ताः शब्दा अनेकधा अवयवेष्वपि प्रवर्तन्ते इति न्यायाद्यद्यपि लोकशब्देन तत्त्वतः पञ्चास्तिकाया उच्यन्ते, धर्मादीनां वृक्तिट्रयाणां भवति यत्र तत् क्षेत्रं तेव्यैः सह लोकस्तहिपरीतं ह्यलोकाख्यमिति वचनात् । तथापीह लोकशब्देन भव्यसत्त्वलोक एव परिगृह्यते, सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेः। अन्यथा अभव्यापेक्षया सर्वभव्यानामप्युत्तमत्वात्रैषामतिशय उक्तः स्यात् । ततश्च भव्यसत्त्वलोकस्य सकलकल्याण निबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, लोकनाथभ्यः, इह लोकशब्देन बीजाधानादिना संविभतो रागाद्युपद्रवेभ्यो रक्षणीयो विशिष्टो भव्य लोकः परिग्टह्यते अस्मिन्नेव नाथत्वोपपत्तेः, योगक्षेमकनाथ
SR No.002395
Book TitleYogshastra Part 04
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1916
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy